पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५७९
बालमनोरमा ।


१५८४) इत्युक्त णत्वप्रकरणोपरि नद्रोध्यम् । यत्वस्यासिद्धत्वेन शाकारव्य

२८४१ । कृत्यल्युटो बहुळम् । (३-३-११३)

रुन्नान्यनेन रुन्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ।

२८४२ । अचेो यत् । (३-१-१७)

अजन्नाद्धातोर्यत्स्यान् । चेयम् । जेयम् । अजश्रहण शक्यमकर्तुम् । थोगविभागोऽप्येवम् । तव्यदादिग्वेव यतोऽपि सुपठत्वात् ।

२८४३ । ईद्यति । (६-४-६५)

यति परे आत ईत्स्यान् । गुणः । देयम् । ग्लेयम् *तकिशसिचतियति जनिभ्येो यद्वाच्यः' (त्रा १९२२) तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धे । न च वृद्धिप्रसङ्गः ।


इह ‘कृत्यच ' इति प्राप्त णत्वन्नति भाव । णत्वप्रकरणोपरीति ॥ इद 'चक्षिडः ख्याञ्ज इति सूत्रे भाग्ये स्पष्टम् । प्रख्यानीयमिति ॥ इह यत्वस्यासिद्धतया शकारेण व्यवधानात कृत्यच.’ इति णत्वनेति भाव. । कृत्यल्युटी ॥ याभ्य प्रकृतिभ्यो येष्वर्थेषु विहिता ततोऽन्यत्रापि स्युरित्यर्थः । स्नानीयमिति । करणे अनीयर् । दानीयः इति ॥ सम्प्र दाने अनायर् । भाध्यऽपि “कृत्यत्र्युटो बहुळमिति वक्तव्यम्' इत्युच्वा पादाभ्या द्वियते पाद हारक । कर्मणि ण्वुल् । श्वोऽग्रीनाधास्यमानेन अनद्यनने भविष्यति लडिन्युदाहृतम् । अचो यत् ॥ शाक्यमकर्तुमिति ॥ 'ऋहलोण्यैत्' इति ऋहलन्तात् विशिष्य ण्यतो विहितत्वेन हलन्तभ्यो यत्प्रत्ययस्याप्रवृत्तिरित्यर्थ । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागो ऽप्येवमिति ॥ कर्तुमशक्य इत्यर्थ. । कुत इत्यत आह । तव्यदादिष्वेवेति ॥ तव्य त्तव्यानीयर्यतः, इत्येकसूत्रत्वेनैव पठितु शक्यन्वादित्यर्थः । ईद्यति ॥ आतः इति ॥ आनो लोप इटेि च' इत्यत. तदनुवृत्तेरिति भाव. । गुणः इति ॥ दाधातोः ‘अचेो यन्' इति यति आत. ईत्वे “सार्वधातुकार्धधातुकयोः' इति गुण इति भावः । ग्लेयमिति ॥ 'ग्लै हर्षक्षये' इति धातोर्यति आदेदवः इत्यात्वे ईत्वे गुण इति भावः । तकिशासीति ॥ तकि शसि, चति, यति, जनि, एषा पञ्चाना द्वन्द्वः । इका निर्देश । 'ऋहलोण्र्यन्' इत्यस्यापवादः । तक इसने, शमु हिंसायां, चतेत याचने, यती प्रयत्रे, जनी प्रादुर्भावे' इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्यय । सकर्मकभ्यस्तु कर्मण्यपीति विवेक । ननु * अहं कृत्यनृचश्च इत्यर्हऽपि जनेण्ताऽपि जन्यमिति रूपसिद्धेः जनिग्रहण व्यर्थमित्यत आह। स्वरार्थः इति ॥ ‘यतो नाव' इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यात् । अतस्तदभावार्थमिह जनर्य द्विधिरस्त्वित्याशङ्कय निराकरोति । न च वृद्धिप्रसङ्गः इति ॥ कुत इत्यत आह । जनि