नञ्पूर्वाजीर्यतः कर्तरि यन् सङ्गतं चेद्विशेष्यम् । न जीर्यतीत्यजर्यम् ।
'तेन सङ्गतमार्येण रामाजर्य कुरु द्रुतम्’ इति भट्टिः । मृगैरजयै जरसोपदिष्ट
मदेहबन्धाय पुनर्बबन्ध' इत्यत्र तु सङ्गतमिति विशेष्यमध्याहार्यम् । “सङ्गतम्
किम् । अजरिता कम्बलः । भावे तु सङ्गतकर्तृकेऽपि ण्यदेव । अजायै सङ्गतेन ।
२८५४ । वदः सुपि क्यप्च । (३-१-१०६)
उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याचाद्यदनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम्--ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्येके | उपसग तु ण्यदव । अनुवाद्यम् । अपवाद्यम् ।
२८५५ । भुवो भावे । (३-१-१०७)
क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुपीत्येव । भव्यम् । अनुपसर्गे इत्यव । प्रभव्यम् ।
२८५६ । हनस्त च । (३-१-१०८)
अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः । ब्रह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ।
२८५७ । एतिस्तुशास्वृद्वजुषः क्यप् । (३-१-१०९)
एभ्यः कन्यप्स्यात् ।
यदिति ॥ ‘कर्तरीति वक्तव्यम् इति वार्तिकम्, निपातनात् कर्तरीति लभ्यत इति तदाशयः। सङ्गतमिति । सङ्गत सङ्गमः । न जीर्यतीत्यजयैमिति । मित्रत्वमिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह । तेनेति । हे राम तेन आर्येण अजयम् अनश्वर सङ्गत सङ्गम दुतङ्करु इति अन्वय । ननु “मृगैरजर्यद्धरसा” इत्यत्र सङ्गतशब्दाभावात् कथ यदित्यत आह । मृगैरित्यादि । काळिदासकाव्यमिदम् । अजरितेति । तृजन्तम् । अत्र सङ्गतशब्दा भावान्न यादति भाव । भावे त्विति । भावस्य सङ्गतिकर्तृत्वऽपि सङ्गतस्य प्रत्ययवाच्यत्वा भावात् न यदित्यर्थः । वदः सुपि ॥ उत्तरेति ॥ 'भुवो भाव' इत्युत्तरसूत्राद्रावे इत्यप कृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः । अनुपसर्गे इति ॥ “वदस्सुप्यनुपसर्गग्रहणम्” इति भाध्यादिति भाव । ब्रह्मोद्यमिति ॥ वदेः क्यपि “वचिस्वपि' इति सम्प्रसारणम् । वस्तुतस्तु नेह भावग्रहणमपकृष्यते । तत्र भावप्रहणमुत्तरा र्थमिति भाष्यादिति मतमनुसृत्य आह । कर्मणि प्रत्ययावित्येके इति ॥ क्यव्यतावित्यर्थः । भुवो भावे ॥ ब्रह्मभूयमिति ॥ कित्त्वान्न गुणः । लीबत्व लोकात् । भव्यमिति ॥ भाव इत्यथः । अत्र सुबुपपदाभावात् यदव, गुण , “वान्तो यि' इत्यवादेशः । प्रभव्यमिति ॥ प्रभाव इत्यर्थः । हनस्त च ॥ अन्तादेशः इति ॥ प्रकृतेरिति शेषः । भाव किम् । घात्येो वृषळः। अनुपसर्गे किम् । प्रघात । निरुपपदं हलेयेति तु असाध्वेव । एतिस्तु । एति, स्तु, शास् ,