पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७६
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता


२८३१ । कृत्याः । (३-१-९५)

अधिकारोऽयं ण्वुलः प्राक् ।

२८३२ । कर्तरि कृत । (३-४-६७)

कृत्प्रत्ययः कर्तरि स्यादिति प्राप्रे ।

२८३३ । तयेोरेव कृत्यक्तखलर्थाः । (३-४-७०) एते भावकर्मणोरेव स्युः ।

२८३४ । तव्यत्तव्यानीयरः । (३-१-९६)

धातेोरेते प्रत्ययाः स्युः । तकाररेफौ स्वराथै । एधितव्यम् । राधनीयं त्वया । भावे औत्सर्गिकमेकवचनं कृीबत्वं च । चेतव्यश्चयनीयो वा भर्मस्त्वया । वसेस्तव्यत्कर्तरि णिच' (वा १९२०) । वसतीति वास्तव्य । केळिमर उपसंख्यानम्' (१९१९) । पचेळिमा मापा । पक्तव्याः भिदेळिमा


क्तत्वाभावात् । कृत्याः ॥ कृत्यसज्ञका इत्यर्थ. । ततश्च *प्रैपातिसर्गप्राप्तकालेषु कृल्याश्च, अर्ह कृत्यतृचश्च, शकि लिङ् च' इत्यादि प्रवर्तते । ण्वुलः प्रागिति ॥ “एवुल्तृचौ' इत्यत. प्रागि त्यर्थः । एतच भाष्ये स्पष्टम् । कर्तरि कृत् ॥ अर्थनिर्देशोऽयम् ॥ इतिं प्राप्त इति ॥ वृक्ष्यमाणतव्यदादिप्रत्ययाना कृत्सज्ञकत्वात्तेषाङ्कर्तरि प्राप्तावित्यर्थः । तयोरेव कृत्यक्तरवल थः ॥ 'लः कर्मणि च भावे च' इति सूत्रेोपात्ते भावकर्मणी तच्छब्देन परामृश्यते । तदाह । एते भावकर्मणोरेवेति ॥ नतु कर्तरीति भाव. । वैशेषिकत्वादेव सिद्धे एवकारस्तु नव्य दादीनां कृत्सज्ञकतया प्राप्तकर्तृकत्वस्याभावमनुवदन् कृत्यसज्ञया वैशेषिक्या कृत्सज्ञाया अबाध मयति । तव्यत्तव्यानीयरः ॥ तव्यत् तव्य अनीयर् एषान्द्वन्द्वः । प्रत्ययाः स्यु रिति ॥ ते कृत्सज्ञकाः कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम्। स्वरार्थाविति ॥ ‘तित्स्वरितम्’ इति ‘उपो नम रिति’ इति च स्वरविशेषार्थत्वादित्यर्थ. । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्त -वमेवेति बोद्यम् । भावे उदाहरति । एधितव्यमिति ॥ त्वत्कर्तृका एधनक्रियेत्यर्थः । ननु लः कर्मणि च' इत्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम् । तिड्वाच्यभावनाया असत्त्वरूपतायाः उक्तत्वात् । ततश्च तस्य भावस्य असत्वरूपस्यात्र ‘तयोरेव कृत्य' इति तच्छब्देन परामशत्तव्य दादीनामसत्त्ववाचितया लिङ्गसङ्खयान्वयेोऽनुपपन्न इत्यत आह । भावे ऑोत्सार्गिकमेकव चनमिति ॥ ‘एकवचनं, द्विबहुषु द्विबहुवचने’ इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाभावे एक वचनमिति भाष्यसिद्धान्तादिति भाव । कृीबत्वञ्चेति । एकश्रुतिः स्वरसवंनाम । लिङ्ग सर्वनाम नपुसकमिति 'दाण्डिनायन' इति सूत्रस्थभाष्यादिति भाव. । कर्मण्युदाहरति । चेत व्यः इति ॥ 'वसेस्तव्यत् कर्तरि णिच' इति वार्तिकम् । वास्तव्यः इति ॥ वस्तेत्यर्थः । णित्वादुपधावृद्धिः । केळिमरः इति ॥ धातोरित्येव । भावकर्मणोरेवेदम् । केळिमरि ककाररे