पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७४
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता


भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहारे इत्यस्याननुवृत्तेः । लोडन्तस्य द्वित्वा परतश्व । पुरीमवस्कन्देत्यादि मध्यमपुरुषकवचनमित्यपि केषांचिद्धम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ।

इति लकारार्थप्रकरणम्



इति । अननुवृत्तरिति । भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधक माह । लोडन्तस्येति ॥ ‘समुचयेऽन्यतरस्याम्' इति सूत्रे क्रियासमभिहारे इत्यनुवृत्तौ अव स्कन्देत्यादिलोडन्ताना 'क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वापत्तरित्यर्थः। भ्रम एवेति ॥ मध्य मपुरुषाशे एकवचनाशे च भ्रम एवल्यथे । कुत इत्यत आह । पुरुषवचनसंज्ञे इह नेत्यु क्तत्वादिति । अत्र भाध्ये ‘हिखान्तयेोरनभिव्यक्तसङ्खयाकालकत्वात्तदभिव्यक्तये अनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्मसुतु’ इत्युक्तम् । एवञ्च “तानीमानि क्षुद्राण्यसकृदावतींनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतन् तृतीय स्थानम्' इति श्रुतौ ‘समुच्चयेऽन्यतरस्याम्' इति लेटो हिस्वावेव भवतः, न त्वनुप्रयोग । तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्खयाका लाभिव्यक्तरविवक्षितत्वेन तत्रानुप्रयोगस्य प्रयेोजनाभावात् । एतेन “आ च सत्यलोकादाचावीचे जीयस्व त्रियस्व' इति विपरिवर्तमानमान्मान जीवलोकचालोक्यास्मिन् ससारे नित्याशुचिदुःखात्म कम्प्रसङ्कयानमुपवर्तत इति वाचस्पत्यग्रन्येऽपि जायस्व म्रियस्वेति व्याख्यातम् । नचात्र “समु चयेऽन्यतरस्याम्' इत्यत्र क्रियासमभिहारे इत्यस्याननुवृत्तेरुक्तत्वात् कथमिह पौनःपुन्यावगति रिति वाच्यम्। ‘आ च सत्यलोकादाचावीचेः विपरिवर्तमानम्’ इति समभिव्याहारेण तदुपपत्तेः । उदाहृतश्रुतौ तु पौन पुन्य असकृत् पदगम्यमित्यदोषः । कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र क्रियासमभिहार इतिसूत्रेण लोडित्युक्तम् । तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपश्चितम ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमाया लकारार्थप्रक्रिया निरूपण समाप्तम् ।