याथः । याथ ! यात यातेति यूयं यात । याहि याहीत्ययासीन् । अयास्यद्वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षे अधीध्वमधीध्वमिति यूयमधीध्वम् । समुचये तु सक्तून्पिब, धानाः खादेत्यभ्यवहरति । अत्रं भुङ्क्ष्व, दाधिकमा स्वाद्यस्वेत्यभ्यवहरते । तध्वमोस्तु पिवत, खादृतेत्यभ्यवहरत । भुङ्ध्वमास्वद् ध्वमित्यभ्यवहरध्वम् । पक्षे हिस्वैौ । अत्र समुचीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे मक्तून्पिबति । धानाः खादति । अत्रं भुङ्गे । दाधि कमास्वदूत । एतन्न ।
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण गन्नानि हरामराङ्गनाः । विगृह्य चक्रे नुमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ।।
३त व्याख्यातम् । अवस्कन्दनलवनादरूपा भूतानद्यतनपरराक्षा एक कर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्वस्कन्देत्यादिरर्थ इति व्याख्यानं
यात यातेति यूयं यातेति ॥ याहि याहील्ययात् । याहि याहीति यायात् । लुडयाह । याहि याहीत्ययासीदिति ॥ लडि उदाहरति । अयास्यद्वेति ॥ याहि याहील्यास्य दिनि लडि रूपम् । यास्यति वेति पाठे लटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति ॥ वविषये स्वादेशाभावपक्षे इत्यर्थः । यूयमधीध्वम् इति ॥ लोण्मध्यमपुरुषवहुवचनम्। भाव कर्मणेोस्तुभूयस्व भूयस्वति भूयते । पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम्। अथ ‘समुचये सामा न्यवचनस्य’ इत्यस्योदाहरति । समुच्चये त्विति । अभ्यवहरतीति ॥ पान द्रवद्रव्यस्य दन्तसम्मर्दन विना भक्षणम् । खादनन्तु कठिनद्रव्यस्य चर्वणम् । तयोस्सामान्यरूपमभ्यवह रणम् । यथाकथञ्चित् भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाचित् हिम् । देशपक्षे इत्यर्थ । पिब खादत्यभ्यवहरतीत्युदाहार्यम् । अत्रेति । पिव खादेत्यभ्यवहरता त्यादौ समुचीयमानपानखादनादिक्रियाविशेषणमनुप्रयुज्यमानधातुवाच्याभ्यवहरणात्मकक्रियासा मान्येन अभेदान्वय इत्यर्थ । पक्षे सक्तूनिति ॥ समुचये लोडभावपक्षे अनुप्रयोगोऽपि मा मान्यवचनस्य नास्तीति भावः । एतेनेति ॥ ‘समुच्चयेऽन्यतरस्याम्' इति ‘ससुचये सामान्यवच नस्य' इति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च पुरीमवस्कन्दत्यादि माघकाव्यस्थ श्रेोकवाक्य व्याख्यातमित्यर्थः । वली रावण. नमुचिद्विषा इन्द्रेण विगृह्य विरोध प्राग्य पुर्याः अमरावत्या अवस्कन्दन पाडनं, नन्दनवनस्य लवन, रत्नानाम्मोषणम्, अमराङ्गनाना हरणम्, इत्येवप्रकारेण अहर्दिवं अहन्यहनि अस्वास्थ्यञ्चक्रे कृतवानित्यन्वय. । इत्थशब्दः इतिपर्याय.। अवस्कन्दनादि क्रियाविशेषाणां अस्वास्थ्यक्रियासामान्ये अभेदङ्गाहयति । फलितमाह । अवस्कन्दनलव नादीति ॥ आदिना मोषण हरणञ्च गृह्यते । भ्रममूलकत्वमुपपादयति । द्वितीयसूत्रे 60