पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७२
[लकारार्थ
सिध्दान्तकौमुदीसहिता

अनेकक्रियासमुचये द्योत्ये प्रागुक्तं वा स्यात् ।

२८२७ । यथाविध्यनुप्रयोगः पूर्वस्मिन् । (३-४-४)

आद्ये लोड़िधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ।

२८२८ । समुच्चये सामान्यवचनस्य । (३-४-५)

समुचये लोड़िधौ सामान्यार्थकस्य धातोरनुप्रयोगः स्यात्। अनुप्रयोगा द्यथायथं लडाद्यस्तिब्बाद्यश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभि व्यक्तिः । *क्रियासमभिहारे द्वे वाच्ये' (वा ४६९५) । याहि याहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानं यानं यातीत्यस्य इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयति । एव यात । यान्ति । यासि


समभिव्याहारः इति पदरहित ‘क्रिया लोट्लोटो हिस्वौ वा च तध्वमो ' इति पूर्वसूत्रमनुवर्तते । क्रियेति लुप्तषष्ठीबहुवचनान्त समुचय इत्यत्रान्वेति । तदाह । अनेकक्रियासमुच्चये द्योत्ये इति ॥ एवञ्च कारकसमुच्चयमाश्रित्य नास्य प्रवृत्ति । प्रागुक्तमिति । धातोलट् तस्य हिस्वप्रसिद्धहिस्वधर्मकौ तवमोर्विषये वा इत्युक्तमित्यर्थ । यथाविध्यनुप्रयोगः ॥ ‘क्रिया समभिहारे’ इति, ‘समुच्चयेऽन्यतरस्याम्' इति च, लेड़िधी उत्तौ। तयोर्मध्ये यत्पूर्वसूत्र क्रियासम भिहार इति तदेतत्पूर्वशब्देन परामृश्यते । तदाह । आद्ये लोड़िधाने इति ॥ विधिमनति क्रम्य यथाविधि । यस्याः प्रकृतेः लोड़िहितः तस्या अनुप्रयोग इति लभ्यते। तदाह । लोट् प्रकृतिभूत एवेति । अत्रानुप्रयोगः पश्चात्प्रयोगः, नत्वव्यवहितत्व विवक्षितम् । लुनीहि लुनीहि इत्येवाय लुनातीति भाष्यप्रयोगालिङ्गात् । समुच्चये सामान्यवचनस्य ॥ उच्यते ऽनेनेति वचन । सामान्यवाचिन इत्यर्थ. । फलितमाह । सामान्यार्थकस्येति । समुच्चीय मानक्रियासामान्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति ॥ अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यान्तु न सङ्खयाकारकाद्यभिव्य क्ति. । तथाच भाष्य 'हिस्वान्तमव्यक्तपदार्थकन्तेनापरिसमाप्तोऽर्थः’ इत्यादि। ‘क्रियासमभिहारे द्वे वाच्ये' इति वार्तिकन्द्विरुक्तिप्रक्रियाया व्याख्यातम् । इदमाद्यसूत्रविहितलोडन्ताविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लेोटमुदाहरति । याहि याहीति यातीति । भाष्ये इतिशब्दस्य दर्शनादिति.भावः । ह्यन्तस्येति ॥ याहि याहीत्यस्येत्यर्थः । एककर्तृकमिति ॥ यातीति यानकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः । अभेदान्वये इति । तथाच पुन पुनरतिशयेन वा यद्यानन्तदात्मकमेककर्तृकं वर्तमान यानमिति बोध । तिडन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः । एवमिति । याहि याहीति यातः, याहि याहीति यान्तीत्यादिस कलपुरुषवचनेपूदाहार्यमित्यर्थः । याहि याहीति ययौ । याहि याहीति याता । याहि याहीति या स्यति । याहि याहीति यातु । लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः वा च तध्वमोरिति । तत्र हिभावपक्षे याहि याहीति यूय यातेति सिद्धवत्कृत्य अभावपक्षे आह ।