तध्वमविषये तु हिस्वैौ वा स्त । पुरुषेकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामथ्र्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्येो हि कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ।
२८२६ । ससुचयेऽन्यतरस्याम् । (३-४-३)
भिप्रायमेकवचनम् । ननु हिस्वयोरुभयोरपि लादेशत्वान् परस्मैपदत्च स्यात् । तथा सति हे. पर स्मैपदत्व स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिछेद्यन् । अस्य स्वादेशस्य तड़प्रत्याहा रप्रविष्टत्वाभावन “नडानावात्मनेपदम्’ इत्यस्याप्रवृत्ते । 'तिप्तसूझि' इत्यादिसूत्रोपानेषु ताता मादिष्वेव तड्सज्ञाप्रवृत्ते' । किञ्च अनयोर्हिस्वयो. 'तिप्तस्झि' इति सूत्रानन्तभूतत्वात्तङ्त्वञ् द्वर्लभमित्यत आह । तौ चेति । लोटो हिस्वाविति द्वितीयवाक्ये तावत्क्रियासमभिहारे लो डिति प्रथमवाक्यात् लेडित्यनुवृत्त स्थानपष्ठया विपरिणत तृतीय वाक्य सम्पद्यते । तत्र हि लेोटो हिस्वौ इति द्वितीयवाक्यान् हिस्वाविलयनुवृत्त धर्मपरमाश्रीयते । तथा च लेोडादेशौ हि स्ववद्रवत इति लभ्यते । कौ भवत. इत्याकांक्षाया पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते । ततश्च याविमौ तिङनन्तभूतौ हिस्वावुक्तौ तौ प्रसिद्धलेोडादेशतिङन्तर्भूत हिस्ववत् भवत इति तृतीय वाक्य पर्यवस्यति । तिडन्तर्भूतहिस्वयोस्तावन् क्रमात । प्रसिद्ध तिड्त्वम् । अतः प्रकृतौ हिस्वौ क्रमात् परस्मै पदात्मनेपदसञ्ज्ञो स्तः तिडसज्ञा चेत्यर्थः । तिङ्त्वात्पदत्वसिद्धिः । ननु वा च तध्वमेोः इति तध्वमोहिँस्वादेशविकल्पविधिरनुपपन्न । लोडादेशभूतहिस्वयोस्तिडपवादतया लोटस्तध्वमोर प्रसत्तेरित्यत आह । तध्वमोर्विषये त्विति । स्थानषष्ठीमाश्रित्य लोडादेशतध्वमोः स्थाने हिस्वावित्यर्थ इति न भ्रमितव्यम् । येनोक्तदोष. स्यान् । किन्नु विषयविषयिभावः षष्ठयर्थः । तथाच तथ्वमोर्विषये लेोटे हिस्वै, पक्षे त८वमाविनि फलतीत्यर्थः । अत्र मध्यमपुरुषबहुवचन मेव तशब्दो गृह्यते । व्याख्यानात् । ध्वसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषेकवचनत्व स्याग्यतिदेशाद्युष्यत्सामानाधिकरण्ये एकत्वेच सत्यव हिस्वौ स्याताम्। तथाच “इमौ हिस्वौ सर्वेषा पुरुषाणां सर्वेषाञ्च वचनानामिष्यते” इति भाष्यमनुपपन्नमित्यत आह । पुरुषेकवचनसंज्ञे त्विति॥हिस्वयोर्मध्यमपुरुषसज्ञा एकवचनसज्ञा च नातिदिश्यते इत्यर्थः। कुन इत्यत आह । हिस्व विश्रानेति । यदि हिस्वयेोर्मध्यमपुरुषेकवचनसज्ञे स्याताम्। तर्हि युष्मत्मामानाधिकरण्ये एकत्वे च सत्येव लेोटो हिस्वौ स्याताम् । अन्यत्र तु यथायथन्तिवावादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थक स्यात् । अतो न पुरुषवचनातिदेशा इत्यर्थ . । तेनेति ॥ हिखयोः पुरुष वचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसज्ञालाभेन चेत्यर्थ । सकलेति । सकलपुरुष वचनाविषये हिर्भवति । स च भवन् परस्मैपदिभ्य एव कर्तयैव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः । शेषात्कर्तरि परस्मैपदमित्युक्तरिति भावः । आत्मनेपदिभ्यः स्वः इति ।॥ “ अनुदात्तडित आत्मनेपदम्, भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यः भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भाव । समुच्चये ॥