पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७०
[लकारार्थ
सिध्दान्तकौमुदीसहिता

धात्वर्थानां संबन्ध यत्र काले प्रत्यया उत्क्तास्ततोऽन्यत्रापि स्युः । तिङन्तवाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन्ददर्श । भूते लट् । अतीतवासकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ।

२८२५ । क्रियासमभिहारे लोट् लोटो हिस्वौ

वा च तध्वमोः । (३-४-२) पौनःपुन्ये भृशार्थे च द्योत्ये धातोलॉट् स्यात्तस्य च हिस्वौ स्तः । तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिड्संज्ञौ च ।


इति गम्यते । तदाह । धात्वर्थानामित्यादिना ॥ धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वा भिप्राय बहुवचनम् । “ वर्तमानसामीप्ये वर्तमानवद्वा' इत्यादिसूत्रे यत्र काले ये प्रत्यया उक्ताः ते धात्वर्थयोस्सम्बन्धे गम्ये ततोऽन्यस्मिन्नपि काले स्युरिति यावत् । तथाच वसन् ददर्शयत्र लडादेशः शतृप्रत्ययो भूतकाले इति सिद्ध भवति । ननु ‘वसन् ददर्श' इत्यत्र भूते लडिव वर्त माने लिडित्यपि स्यादित्यत आह । तिङन्तेति ॥ वसन् ददर्शत्यादौ तिङन्तवाच्यदर्शनादि क्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिक्रियार्थत्वात् गुणभूता । अतः प्रधानभूतदर्शनादि क्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः । भूते लडिति । एवञ्च उषित्वा ददर्शल्यर्थः । तदाह। अतीतेति । अतीतवासे कर्ता यस्येति विग्रहः । ‘सप्तमीविशेषणे बहुत्रीहौ' इति ज्ञापकाद्यधिकरणपदो वहुव्रीहिः । उदाहरणान्तरमाह । सोमयाजीति ॥ सोमेन इष्टवान्य. स सोमयाजी ‘करणे यजः’ इति भूत विहितो णिनि. इह भवि तेत्यनद्यतभावघ्यल्लुडन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोछ. । तदाह । सोमेन यक्ष्यमाणः इति ॥ भवनमिति ॥ उत्पत्तिरित्यर्थः । गोमानासीदित्यप्युदाहार्यम् । अत्र गौ रस्यास्तीति अस्तिक्रियाया वर्तमानायान्तदस्यास्तीति विहितो मतुप् गौरस्यासीदितीति भूता यामस्तिक्रियायाम्भवति । धात्वर्थद्वयसम्बन्धस्य सत्त्वात् । एतेन अर्थद्वारकं धात्वोस्सम्बन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसम्बन्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभात् गोमानासीदित्यत्र मतुबन्तापते । नहि धात्वोरिह प्रयोगोऽस्ति। धात्वर्थयोस्सम्बन्धे इत्यर्थाभ्युप गमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुप् निबध इत्यन्यत्र विस्तरः । क्रियासमभि ॥ अत्र चत्वारि वाक्यानि । तत्र क्रियासमभिहारे लोडिति प्रथम वाक्यम्। पौन पुन्य भृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वर्थवि शेषणम् । क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोरिति लभ्यते । लोट् तु यातक । तदाह । पौनःपुन्ये भृशार्थे च द्योत्ये इति ॥ क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोलॉडिति यावत् सर्वलकारापवादः ॥ लोटो हिस्वाविति द्वितीय वाक्य व्याचष्ट । तस्येति । पूर्ववाक्यविहि तस्य लोट: हिस्वावादेशौ स्त इत्यर्थः । तिङामपवाद इति ॥ अपवादावित्यर्थः । प्रत्येका