पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६८
[लकारार्थ
सिध्दान्तकौमुदीसहिता

विधिनिमन्त्रण–' (सू २२०८) इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रसारणे' । किं भो वेदमधीयीय उत तर्कम्। प्रार्थने । भो भोजनं लभेय । एव लाट् ।

२८१७ । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च । (३-३-१६३)

लोट् च । प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवता यष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालाथम् ।

२८१८ । लिङ् चेोध्र्वमौहूर्तिके । (३-३-१६४)

प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूध्वै यजेत-यजताम्-यष्टव्यम् ।

२८१९ । स्मे लोट् । (३-३-१६५)

पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊध्र्व मुहूर्ताद्यजतां स्म ।

२८२० । अधीष्ट च । (३-३-१६)


क्रमप्राप्तत्वात् स्मारितम् । सम्प्रसारणे इति । सम्प्रश्रे इत्यर्थः । एवं लोडिति ॥ लोट् चेति विद्यादिषु विहितो लोडप्येवमुदाष्ट्रियते इत्यर्थ. । प्रैषातिसर्ग ॥ लोट् चेति । पूर्वसूत्रो पानो लोट् चकारात्समुचीयते । कृत्यसज्ञकाः प्रत्ययाः वक्ष्यमाणेो लोट्च प्रैषादिषु भवन्तीत्यर्थः । श्रेषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति । भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोट मुदाहरति । भवान् यजतामिति । ननु चकारेण लोटोऽनुकर्षण व्यर्थम् । प्रैषस्य विधि रूपतया अतिसर्गस्य आमन्त्रणरूपतया च ‘लोट्च' इत्यनेनैव सिद्धेरित्यत आह । चकारेणेति ॥ प्राप्तकाले यथा। गुरुणा भेोक्तव्य। गुरुर्भुञ्जीत । भोजन प्राप्तावसरामित्यर्थः । प्राप्तकाले च कृत्याश्च , इत्युक्तौ तु निमन्त्रणादिष्वपि कृत्या. स्युः । अतः प्रैषादिग्रहणम् । लिङ् चोध्र्वमौहूर्तिके ॥ लोडथैलक्षणे च' इत्युत्तरमवञ्जातीयकमेव सूत्र लिङ्लड्लुङ्लड़िधायक प्राक् पठितम् । तत्र ऊध्र्वमौहूर्तिकशब्दो व्याख्यातः । प्रैषादयः इति ॥ तथाच मुहूर्तादुपरितनकालके धात्वर्थे विद्यमानाद्धातोः प्रैषातिसर्गप्राप्तकालेषु लिङ् च स्यात् लोट् कृत्यावेत्यर्थः । क्रमेण लिडादीनुदः हरति । मुहूर्तादूध्र्व यजेत-यजतां-यष्टव्यमिति । अत्र प्राप्तकाले अप्राप्तस्य लिडो विधिः । विध्यादिसूत्रे लिड्विधौ प्राप्तकालस्य ग्रहणाभावात् । प्रैषातिसर्गयेोतु विध्यादिसूत्रेणैव लिड् सिद्यति । लिड एवात्र विधौ तु, तेन लोटः कृत्यानाञ्च बाधः स्यात् । अतश्चकारेण तेषा मपि विधिरिति ज्ञेयम् । स्मे लोट् ॥ पूर्वसूत्रेति ॥ तथाच मुहूर्तादुपरितनकाले प्रैषातिसर्ग प्राप्तकालेषु लेोडेव स्यात्, नतु लिङ् कृत्याश्चेत्यर्थ । तदाह । लिङः कृत्यानाञ्चापवादः इति ॥ अधीष्ट च॥ लोट् स्यादिति ॥ ‘अधीष्ट च' इति विहितस्य लिडोऽपवादः । अधीष्ट


१. अय पाठः व्याख्यात्रभिमतः “सप्रश्रे' इति पाठस्तु साम्प्रदायिकः ।