। संभावनेऽर्थे धातावुपपदे उत्तेऽर्थे लिङ् वा स्यात्, न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । सम्भावयामि भुञ्जीत भावयत वा अयदि' किम् । सम्भावयामि यद्भजीथास्त्वम्
२८१३ । हेतुहेतुमतोलिड् । (३-३-१५६)
वा स्यात् । कृष्णं नमेचेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । “भविष्यत्येवेष्यते ।’ (वा २२७५) । नेह । हन्तीति पलायते ।
२८१४ । इच्छार्थेषु लिङ्लोटौ । (३-३-१५७)
इच्छामि भुञ्जीत-भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बाध्यम् । “कामप्रवेदने इति वक्तव्यम्' (वा २२७६) । नह । इच्छन्करोति ।
२८१५ । लिङ् च । (३-३-१५९)
समानकर्तृकेषु इच्छार्थेषु लिङ् । भुञ्जीयेतीच्छति ।
२८१६ । इच्छार्थेभ्यो विभाषा वर्तमाने । (३-३-१६०)
लिङ् स्यात्पक्षे लट् । इच्छेत् । इच्छति । कामयेत । कामयते ।
यदिति ॥ लिडभावे लट्। 'शेष लडयदा' इत्यतस्तदनुवृते. । सम्भावयामीति । प्रायण भोक्तु समर्थ इत्यर्थः । हेतुहेतुमतोलिंङ् ॥ पूर्वसूत्राद्विभाषानुवृत्ति मत्वा आह । वा स्या दिति ॥ पक्षे लट्। हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोलिंड् वा स्यादिति यावत् । भविष्य त्येवेति ॥ लिडित्यनुवर्तमाने पुनर्लिङ्गहणादिति भावः । हन्तीतीति ॥ इतिहँतौ वर्तमान कालिकहननाद्धेतोरित्यर्थः । अत्र लिङ्कनिमित्तसत्त्वात् । भविष्यति तु क्रियातिपत्तौ भूते च लङ् । इच्छार्थेषु लिङ्लोटौ ॥ इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लेटौ स्तः । सर्वलकारापवादः असमानकर्तृकविषयमिदम्। समानकर्तृकेषु तु ‘लिङ् च' इति वक्ष्यते । इच्छामीति । भुञ्जीत भवानिति इच्छामीत्यन्वयः । कामप्रवेदने इति । पर प्रति खाभिप्रायाविष्करणे इच्छार्थेषु लङ्कलाटावात विधिरित्यर्थः । इच्छन्करोतीति ॥ पर प्रति स्वाभिप्रायाविष्करणाभावान्न लिइलेोटाविति भाव. । “कामप्रवेदनेऽकचिति' इति सूत्रन्तु प्रकरणादिना यत्र कामप्रवेदन नत्वि च्छार्थकमुपपदमास्ति तद्विषयामिति बोछद्यम् । इत उत्तरसूत्र समानकर्तृकेषु तुमुन्निति तु कृदधि कारे व्याख्यास्यते । लिङ् च ॥ समानकर्तृकेष्विति इच्छार्थेष्विति चव.नुवर्तते । तदाह । समा नेत्यादि । भुञ्जीयेतीच्छतीति । अत्र भेोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम्। समानकर्तृ केषु इच्छार्थेष्विति च लोटो निवृत्त्यर्थमद सूत्रम् । क्रियातिपत्तौ तु भविष्यति नित्य लटड् भूत वत्यधिकारः सम्पूर्ण:। इच्छार्थेभ्यो। लिडित्येवानुवर्तते । समानकर्तृकेष्विति तु निवृत्तम्। तत् सूचयन्नुदाहरति।इच्छेत्।इच्छतीति ॥“विधिनिमन्त्रण'इतिभूधातौ व्याख्यातमपि सूत्र