पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६४
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२८०३ । किंकिलास्यर्थेषु छूट् । (३-३-१४६)

अनवक्लप्यमर्षयोरित्येतत् “गहयां च' (सू २८०६) इति यावदनु वर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्यर्था: अस्तिभवतिवि द्यतयः । लिडोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्न भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लड् न ।

२८०४ । जातुयदोर्लिङ् । (३-३-१४७)

यदायद्योरुपसंख्यानम्' (वा २२७५) । लटोऽपवाद् । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लङ् प्राग्वत् ।

२८०५ । यञ्चयत्रयोः । (३-३-१४८)

यच यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि ।


कतरः इति ॥ लङ् प्राग्वदिति ॥ भविष्यति निलय लङ्, भूते वेत्युक्तमिहाप्यनुसन्धेयामि त्यर्थः । किङ्किल ॥ किङ्किलेतिसमुदायस्य अस्त्यर्थानाञ्च द्वन्द्वः । यावदिति ॥ 'गहयाश्च इत्यभिव्याप्येत्यर्थः । किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लत्यमर्षयोर्लट् स्या दित्यर्थ. । पूर्वसूत्रेण लड्लटोः प्राप्तौ लडेवेत्यर्थमिदम् । तदाह । लिङोऽपवादः इति । न श्रद्दधे इति । न सम्भावयामीत्यर्थः । त्व शूद्रान्न भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये वा किलेित्यन्वयः । किङ्किलेति क्रोध द्योतयति। अस्तीति ॥ ३शूद्रस्य स्त्री शूद्री। ताङ्गमिष्यसी त्यस्ति भवति विद्यते वेत्यन्वय. । अत्र लुङ् नेति । भविष्यति नित्यं लड, भूते वेत्युक्तमिह न सम्भवति । अत्र लिडो विद्यभावेन लिइनिमित्तविरहात् । जातुयदोर्लिङ् ॥ जातु यदा अनयोः प्रयोगे अनवक्लत्यमर्षयोर्लिङ् स्यादित्यर्थः । यदेति विभक्तिप्रतिरूपकमव्ययम् । अन वक्लप्त्यमर्षयोराकवृत्तेऽपीति लिडलटौ प्राप्तौ लिडेवेत्यर्थमिदम् । तदाह । लुटोऽपवादः इति ॥ यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिड उपसङ्खयानमित्यर्थः । जात्वादिशब्दा उदाहरणे अनवक्लप्त्यमर्षद्योतकाः । त्वादृशो हरिन्निन्देदित्येतत् नावकल्पयामि न मर्षयामि वेत्यन्वयः। नावकल्पयामीत्यस्य न सम्भवायामीत्यर्थः । लङ् प्राग्वदिति ॥ भविष्यति नित्यं लड् भूते वेत्युक्तमिहाप्यनुसन्धेयमित्यर्थः । जात्वादियोगस्य अनवक्लप्त्यमर्षयोश्च लिङ्कनिमित्तत्वादिति भावः । यच्चयत्रयोः ॥ यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लप्त्यमर्षयो र्लिङ् स्यादित्यर्थः । लूटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवक्लप्त्यमर्षद्योतकौ । त्वमेवडुर्या इत्येतत् न श्रद्दधे न मर्षयामि वेत्यन्वयः । अत्रापि भविष्यति नित्य लड्, भूते वेत्युक्तमनुसन्धेयम् । लिङ्कनिमित्तस्य