पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४६३
बालमनोरमा ।


२८०० । विभाषा कथमि लिङ् च । (३-३-१४३)

गहयामित्येव । कालत्रये लिङ् चालट् । कथं धर्म त्यजेः त्यजसि वा । पक्षे कालत्रये लकारः । अत्र भविष्यति नित्यं लङ भूते वा । कथं नाम तत्र बालमन्नारमा ।

२८०१ । किंवृत्ते लिङ्लटौ । (३-३-११४)

गहयामित्येव । विभाषा तु नानुवर्तते । कः-कतरः-कतमो वा हरिं निन्देन्-निन्दिष्यति वा । लङ् प्राग्वन् ।

२८०२ । अनवक्लूप्यमर्षयोरकिंवृत्तेऽपि । (३-३-१४५)

गहॉयामिति निवृत्तम् । अनवक्लभिरसंभावना । अमर्षोंऽक्ष्मा । न सम्भावयामि न मर्षये वा भवान्हरिं निन्देन्-निन्दिष्यति वा । कः कतरः-कतमो वा हरिं निन्देन्-निन्दिष्यति वा । लङ् प्राग्वत् ।


जातुशब्दौ निन्दाद्योतकौ । तदाह। गर्हितमेतदिति । विभाषा कथमिलिङ्च ॥ गह यामित्येवेति ॥ अनुवर्तत एवेत्यर्थ । कालत्रये लिडिति शेषपूरणम् । भविष्यतीति निवृत्त मिति भावः । चाछडिति समुच्चीयत इति शेष । तथाच कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हीयां लिङ्लटौ वा स्त इति फलितम् । कथं धर्म त्यजेरिति ॥ त्यक्तवान् त्यक्ष्यसि त्यजसि वेल्यर्थः । गर्हितमेतदिति कथशव्दाद्रम्यत । लटि उदाहरति । त्यजसि वेति ॥ उत्क्तो ऽर्थः । पक्षे इति । विभाषाग्रहणाड्लिटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लड्लुड्लट्लुट्लूट इत्यर्थः । अत्रेति । अत्र उक्तविषये भविष्यति काले क्रियायाः अनिष्पत्तौ गम्यमानायां लिङ्कनिमित्ते लड् क्रियातिपत्तौ' इति नित्यमेव लङ् । कथमेो गहयाश्च लिङ्कनिमि त्तस्य सत्वादित्यर्थः । विशेषविहितत्वादिति भावः । भूते वेति ॥ “वोताप्योः' इति भूते लिङ्कनिमित्ते लड् वेति अधिकृतत्वादुक्तविषये भूतकाले लडू वेत्यर्थः । भविष्यति िनल लडिल्य त्रोदाहरति । कथन्नामेति । तत्रभवानिति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवावधः कथ धममत्यक्ष्यत् । तत्यागस्य गर्हितत्वादिति भाव । किंवृत्ते लिड्लष्टौ । नानुवर्तते इति ॥ व्याख्यानादिति भावः । विभक्तयन्तं डतरडतमान्तञ्च किशब्दनिष्पन्न किवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गह्वया लिइलटौ स्त इत्यर्थ. । सर्वलकाराणामपवादाविति वृत्तिः । लङ् प्राग्वदिति ॥ भविष्यति नित्यं लड्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः । लिइनिमित्तस्य किवृत्तस्य गहयाश्च सत्त्वादिति भावः । अनवक्लुप्त्यमर्ष। निवृत्तमिति । व्याख्यानादिति भाव.। अनवक्लप्त्यमर्षयोः लिड्लूटोश्च यथासङ्खयन्नेष्यते । अल्पाच्तरस्य अम र्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति ॥ अकिंवृत्त उदाहरणम् । भवान् हरिन्निन्देदिति यत् तत् न सम्भावयामि न मर्षये वेत्यन्वयः । किंवृते उदाहरति । कः