पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६२
[लकान्थ
सिध्दान्तकौमुदीसहिता

२७९६ । परस्मिन्विभाषा । (३-३-१३८)

अवरस्मिन्वर्ज पूर्वसूखद्वयमनुवर्तते। अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । 'लिङ्गनिमित्ते लङ् क्रियातिपत्तौ' (सू २२२९) भविष्यतीत्येव । सुवृष्टिश्चेद्भविष्यत्तदा सुभिक्षमभविष्यत् ।

२७९७ । भूते च । (३-३-१४०)

पूर्वसूत्रं सम्पूर्णमनुवर्तते ।

२७९८ । वाताप्योः । (३-३-१४१)

वा ' आ' “उताप्योः' “उताप्योः-' (सू २८०९) इत्यतः प्राग्भूत लिङ्नमित्ते लङ् वेत्यधिक्रियते । पूर्वसूत्रं तु “उताप्योः' इत्यादौ प्रवर्तत इति

२७९९ । गार्हीयां लडपिजात्वोः । (३-३-१४२)

आभ्यां योगे लट् स्यात् । कालत्रये गहयाम् । लुङादीन्परत्वाद्ययं बाधते । अपि जायां त्यजसि । जातु गणिकामाधत्से । गर्हितमेतत् ।


सर्वेकदेश' इत्यच्समासान्त सङ्खयापूर्वे रात्र कृीवम्' इति तु ' लङ्गमशिष्य लोकाश्रय त्वालिङ्गस्य’ इति वचनान्न भवति । परस्मिन्विभाषा ॥ आनुवर्तते इति । तथाच भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यतनवद्वेति फलितम् । 'लिड़निमित्ते लड् क्रियातिपत्तौ' इति व्याख्यात भूधातुनिरूपणे । भूते च ॥ अधिकारोऽयम् । अनुवर्तते इति ॥ तथाच लिङ्निमित्ते लड् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः । वोताप्योः ॥ अयमग्यधिकार. । वा आ उताप्योरिति छेदः । भूते इति लिङ् निमित्ते लडिति चानुवर्तते । तदाह । उताप्योरित्यतः प्रागिति ॥ उताग्यो समर्थयो रित्यतः प्रागित्यर्थः । नन्वनेन ‘उताप्योः' इत्यत प्राक् भूते लिङ्गनिमित्त लङ्केत्यधिकाराक्रान्त त्वात् भूते चेति पूर्वमधिकारसूत्रन्निर्विषयमित्यत आह । पूर्वसूत्रं त्विति ॥ ‘उताप्योः समर्थ योर्लिड्’ इत्यारभ्य ‘इच्छार्थेभ्यो विभाषा' इत्यतः भूते चेति पूर्वमधिकारसूत्र प्रवर्तत इत्यर्थः । इमाव धिकारौ यत्र लिङ्विधिस्तत्रैव प्रवर्तते, नतु लडादिविधौ । लिङ्निमित्ताभावात् । गहॉयाम्। अपि जातु अनयोर्द्धन्द्वः । अत्र ‘वोताप्योः' इति'भूते लिड़निमित्तेलड् वा’ इत्यधिकारो न सम्बछद्यते । लड़िधानेन तद्विषये लिड्निमित्ताभावात् । कालत्रये इति । वर्तमाने भूते भविष्यति चेवत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामान्ये लडिति भावः । परत्वा दिति ॥ अनवकाशत्वाचेल्यपि द्रष्टव्यम् । अपि जायामित्यत्र जातु गणिकामित्यत्र च अपि