पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४६१
बालमनोरमा ।


वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता नस्यामग्री नाधित । सोमेनायष्ट । येयममावाख्याऽऽगामिनी तस्यामग्रीनाधास्यते । सोमन यक्ष्यत ।

२७९४ । भविष्यति मर्यादावचनेऽवरस्मिन् । (३-३-१३६)

भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्यः आपाटलिपुत्रात्तख्य यदवरं कौशाम्व्यास्तत्र सक्तून्पास्याम |

२७९५ । कालविभागे चानहोरात्राणाम् । (३-३-१३७)

पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसम्वन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थे । योऽयं वत्सर आगामी तस्य यद्वरमाग्रहायण्यास्तत्र अध्यष्यामह । 'अन्नहाररात्राणाम ' किम् । योऽयं मासः आगामी तस्य


उदाहरिष्यन्नाह । सामीप्यमिति ॥ येयमिति ॥ पौर्णमास्या उपरि कृष्णपक्षे कतिपयाह रात्रैः व्यवधानेऽपि सामीप्यमस्येव । पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् । आधि तेति ॥ धाधातोर्लडि “स्थाध्वेििरच' इति धाधातोरित्व सन कित्त्वञ्च । “हूस्वादङ्गात्' इति सिचो लोप । सोमेनायष्टति ॥ येय पौर्णमास्यतिक्रान्ता तस्यामित्यनुषज्यते । अथ क्रिया सातत्ये लुटो निषेधमुदाहरति । येयममावास्येति । सोमेन यक्ष्यते इति ॥ ययममावा स्या आगामिनं तस्यामित्यनुषज्यते । भविष्यति मर्यादा ॥ अवरस्मिन्निति च्छेद । अन द्यतनवन्नेति ॥ लुट्नेत्यर्थ। अक्रियाप्रबन्धार्थमिति भाष्यम्। असामीप्यार्थश्चेति कैयट.। योऽय मिति। कस्मिविजनपदविशेषे वसत पाटलिपुत्राख्य नगरविशेष जिगमिषोरिद वाक्यम्। मछे मार्गौशाम्बी नाम काचिन्नगरीति स्थितिः । तत्र आपाटलिपुत्रातू योऽय गन्तव्योऽध्वा तस्य अ वनः मछे वर्तिन्याः कौशाम्ब्या' यदवर पूर्वप्रदेशः तत्र सक्तून् श्व.प्रभृति पास्याम इति या जना । अत्र कौशाम्ब्या इति मर्यादा गम्यते । अवरमित्यनेन अवरत्वङ्गम्यते । अत्र भविष्य त्यनद्यतने लुट् न, किन्तु लडेवेति भाव । कालविभागे ॥ पूर्वसूत्रमिति ॥ 'भविष्यति मर्यादावचनेऽवरस्मिन्' इति सूत्रमित्यर्थ. । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यत आह । अहोरात्रेति । तथाच अहोरात्रसम्बन्धिनि प्रविभागे भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननु ‘भविष्यति मर्यादावचनेऽवरस्मिन्’ इत्येकमेव सूत्रहुतो नेत्यत आह । योगविभाग उत्तरार्थः इति ॥ इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति ॥ कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्ण मास्या इत्यर्थः । युक्ताः इति ॥ नियमयुक्ता इत्यर्थ. । अध्येष्यामहे इत्यत्र न लुट् । किन्तु लडेवेति भाव । पञ्चदशरात्रः इति ॥ पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः । ‘अच्प्रत्यन्ववपूर्वात्’ इत्यच्समासान्त । यद्वा पञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः । “अहः