पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६०
[लकारार्थ
सिध्दान्तकौमुदीसहिता

वपाम:-वप्स्यामो वा । “ सामान्यातिदेशे विशेषानतिदेश: ।’ तेन लड़लिटौ न ।

२७९१ । क्षिप्रवचने लट् । (३-३-१३३)

क्षिप्रपर्याये उपपदे पूर्वविषये लट् स्यात् । वृष्टिश्रेक्षिप्रमाशु त्वरितं वा यास्यति । शीघ्र वप्स्याम । नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा यात् । `धः शाश्ध वप्स्यामः ।

२७९२ । आशंसावचने लिङ् । (३-३-१३४)

आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चदुपे यादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ।

२७९३ । नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः । (३-३-१३५)

क्रियायाः सातत्ये सामीप्ये च लङ्लुटैौ न । यावज्जीवमन्नमदाद्दास्यनि


भवति । वपधातोर्लडि उत्तमपुरुषबहुवचने अवाग्स्मेति भवति । वृष्टिवापयोरुभयोरप्याशसावि षयत्वादुभयत्रापि लुड् । वर्तमानवत्त्वपक्षे । तदुभयाभावे तु लट् । भूतवत्त्वपक्षे तु लट् ननु लड़लिटावपि कुतो न स्यातामित्यत आह । सामान्यातिदेशे इति ॥ भूतत्वसामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयेोर्लड़लिटोर्नातिदेश इत्यर्थ । एतच भाष्ये स्प ष्टम् । क्षिप्रवचने लट् ॥ वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते । तदाह । क्षिप्रपर्याये इति ॥ पूर्वविषये इति ॥ आशसायामित्यर्थ.।‘आशसायां भूतवच' इत्यस्यापवादः । ननु क्षि प्रवचने नेत्येतावतैव आशंसाया िक्षप्रपर्याये उपपदे भविष्यति न भूतवत् न वर्तमानवदिति लाभा न्छङ्ग्रहणमनर्थकमित्यत आह । नेति वक्तव्ये इति । क्षिप्रवचने नेत्युक्त ‘सामान्यातिदेशे विशेषानातिदेशः’ इति न्यायेन भविष्यत्सामान्ये विहितस्य लठ्ठड एव निषेध स्यात्, नतु लुटः । नस्य अनद्यतनभविष्यद्विशेषविधानात् । लड्ग्रहणे तु उक्तविषये लडेव स्यात्, नतु लकाराः न्तरमिति लाभाल्लुटोऽपि विषये लडेवेति लभ्यत इत्यर्थः । श्वः शीघ्र वप्स्यामः इति ॥ अनद्यतनत्वद्योतनाय श्वश्शब्दः । अत्र न लुडिति भावः । आशंसावचने लिङ् ॥ आशं सायाः प्राप्तीच्छायाः भूते असम्भवात् भविष्यतीति लभ्यत इति मत्वा आह । भविष्यतीति ॥ आशंसायां भूतवच' इत्यस्यापवाद. । तदाह । नतु भूतवदिति । गुरुश्चेदिति॥ गुरुपेया चत् क्षिप्रमधीयीयेत्याशसे इत्यन्वयः । क्षिप्रयेोगेऽपि परत्वालिडेव नतु लडिति भावः । नानद्य तनवत् ॥ क्रियाया. प्रबन्धः सातत्यम् । तदाह । क्रियाया सातत्ये इति ॥ अनद्यतनव दिल्यनेन अनद्यतने भूते भविष्यति व विहितौ लड्लुटौ विवक्षितौ । तदाह । लङ्लुटौ नेति । अनद्यतने भूते लड् न भवति । भविष्यत्यनद्यतने तु लुट् नेत्यर्थ. । क्रियासातत्ये लड्नि थेधमुदाहरति । यावज्जीवमन्नमदादिति ॥ लुडि 'गातिस्था' इति सिचो लुक् । सामीप्ये