पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४५१
बालमनोरमा ।

कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनु सारिण : । तप्यत तपस्तापसः । अजयतात्यथ । ;तपोऽनुतापे च ' (सू २७६०) इति चिण्निषेधात्सिच । अतप्त । “ तपःकर्मकस्य' इति किम् । उत्तपति सुवणे सुवर्णकार । न दुहस्नुनमां यक्चिणौ' (सू २७६७) । प्रस्नुते । प्रास्नाविष्ट-प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यथर्थोऽत्र


सूत्रशेष पूरयति । कर्ता कर्मवदिति ॥ विद्धधर्थमिदमिति । एतच्चानुपदमव उदाह रणव्याख्यावसरे स्पष्टीभविष्यति । ननु विद्यर्थत्व एवकारो व्यर्थ इत्यत आह । एवकारः स्त्विति ॥ तप्यते तपस्तापसः इति । अत्र तपिरार्जनार्थक इत्याह । अर्जयती त्यथः इत ॥ प्राजापत्यचान्द्रायणादिकृच्छाद्यात्मकतपस्सम्पादयतीत्यर्थ. । मुख्यकर्तरि ल मनेन सूत्रेण विधीयत । तन यगात्मनेपदादि । यदा तु तदपि दुःखजननात्मके सन्तापे वर्तते तदा तापस तपस्तपतीत्येव भवति । दुःखयतीत्यर्थ । अत्र मुख्यकर्तृ तपः । तापसस्तु तपः कम । अत्राप दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाभावात् “कर्मवन् कमणा' इत्यनन कमवत्व न भवात | तप कर्मकत्वाभावादनेनापि न कर्मवत्वम् । अतेा न यगादकमकायम् । अथ लुडि अतप्तत्यत्र कर्मवत्वाचिणमाशङ्कय आह । तपोऽनुतापे च इति। चिण्निषेधात् सिजिति । तस्य ‘झलो झलि’ इति लोपे परिनिष्ठितमाह। अतझेति । उत्तपति सुवर्ण सुवर्णकारः इति । अत्र तप कर्मकत्वाभावान्न कर्मवत्वमिति भाव । भाष्ये तु एवकारादिद सूत्र नियमार्थमित्युक्तामिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधस्सूचित इत्यलम् । 'दुहिपच्योर्बहुळम्’ इति कर्मवत्वविधिस्थदुहिप्रसङ्गात् न दुहस्नुनमाम्' इति सूत्रमुपन्यस्त प्राक् । इदानी सिहावलोकनन्यायेन स्नुनमोरुदाहर्तु पुन स्सूत्रमुपन्यस्यति । न दुहस्नुनमां यक्चिणाविति । तत्र स्नुधातोरुदाहरति । प्रस्नुते इति । स्नुधातुः क्षीरप्रस्रवणविषयेोत्कण्ठीकरणे वर्तते । वत्सो गा प्रस्रोतीति मुख्यकर्तरि लकारे वत्सेो गा क्षीरप्रस्रवणविषये उत्कण्ठयतीत्यर्थ । अन्तर्भवितण्यर्थोऽत्र स्नुधातुः । अत्र गौः कर्म । उत्कण्ठनव्यापारस्तु कर्तृभूतवत्सनिष्ठः । उत्कण्ठा तु गोरूपकर्म निष्ठा । गोः कर्मणः कर्तृत्वविवक्षायान्तु प्रस्नुते गौ । स्वयमेव क्षीरप्रस्रवणविषये उत्कण्ठावती त्यथः । तत्र उत्कण्ठा पूव कमगता । सम्प्रात तु कतृगता । उत्कण्ठाकृतश्च वलक्षण्य प्रस्रवण दृश्यत एव । ततश्व कर्मस्थक्रियत्वात् कर्मवत्वे याकि प्राप्त अनेन निषेधः । प्रास्ना विष्ठति ॥ अत्र कर्मवत्वात् प्राप्तश्चिण् न । किन्तु चिण्वदिटौ पक्षे स्तः । चिण्वदिडभावे तु स्नुक्रमाः' इति नियमाद्वलादिलक्षण इण्न । तदाह । प्रास्नाष्टात ॥ णम उदाहरति । नमते दण्डः इति ॥ नमति दण्ड कश्चित् । नमयतीत्यर्थ. । कर्मणः कर्तृत्वविवक्षायान्तु नमते दण्ड. । अत्र कर्मवत्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वऽपि न । ननु णम चवणु धातोः प्रह्वीभावार्थकस्याकर्मकत्वात् कर्मवत्वाप्रसत्तेर्यविणोर्न प्रसक्तिरित्यत आह । अन्त