पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५०
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

चान्यत्रात्मनेपदात्' (वा १८८०) भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ विण्वदिट् च नेति वाच्यमित्यर्थः । अलकुरुत कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ट । गिरते। अगीष्ट । आद्रियते । आदृत । किरादि स्तुदाद्यन्तर्गणः । चिकीर्षते कट: । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियात्वम् ।

२७७० । न रुधः । (३-१-६४)

अस्माच्लेश्चिण्न । अवारुद्ध गौ : । कर्मकर्तरीयेव । अवारोधि गौगोपेन ।

२७७१ । तपस्तपःकर्मकस्यैव । (३-१-८८)


वाच्यतया ते भूषाकर्माण धातवः । भूषणक्रियावाचिनामिति यावत् । तदाह । भूषा वाचिनामित्यादिना ॥ अलंकुरुते कन्येति ॥ स्वयमेव अन्यप्रयत्न विना भूषण क्रियापतीत्यर्थः । अत्र भूषार्थकत्वात् कर्मकर्तरि तडेव नतु यक् । अलमकृतेति ॥ अत्र तडव नतु चिण् । लुटि तु अलङ्कतैत्येव । नतु चिण्वदिटौ । अवकिरते हस्तीति ॥ हस्ति नमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकार । तत्र हस्ती कर्म । तस्य कर्तृत्वविवक्षाया स्वयमेव पुरुषप्रयत्न्न विना वृक्षादिसमीप गच्छन् पुष्पादिभिः अवकिरणवान् भवतीत्यर्थः । अत्रापि तडेव, नतु यगादि। अवाकीर्थेति ॥“लिङ्सिचोरात्मनेपदेषु' इति वेट्। गिरते इति ॥ ओदन स्वयमेवेति शेषः । 'गृ निगरणे' अयङ्किरादि. । आद्रियते इति ॥ 'दृड् आदरणे' अयमपि किरादि . । शप्रत्यये 'रिड् शयग्लिङ्क्षु' इति रिङ् । आतिथिमाद्रियते इति मुख्य कर्तरि आद्रियतेऽतिथिरिति कर्मकर्तरि स्वयमेव आदरणाश्रय इत्यर्थः । अत्र यद्यपि श याकि च न विशेष । तथापि न्याय्यश्श एव । यको निषिद्धत्वात् । स्वरे वा विशेषः । तडेि तु डित्वादेव सिद्ध: । अतिथेरभिहितत्वात् प्रथमेति विशेष । अादृतेति ॥ चिणोऽनेन निषेधे हृस्वादङ्गात्' इति सिचो लोप । ‘उश्च' इति कित्त्वम् । अथ सन्नन्तस्योदाहरति । विकी र्षते कटः इति ॥ स्वयमेव कर्तुमिच्छाविषय इत्यथे. । नन्विच्छायाः पुरुषरूपकर्तृनिष्ठ त्वात् कटरूपकर्मनिष्ठत्वाभावात् इच्छाया सत्यां असल्याञ्च कटे कर्मणि वैलक्षण्यादर्शनाच कर्म स्थक्रियत्वाभावादिह कर्मवत्वस्याप्रसत्तेस्तन्निषेधो व्यर्थ इत्यत आह । इच्छायाः इति ॥ न रुधः ॥ ' च्लेस्सिचु' इत्यत. च्लेरिति “विण्ते पदः' इत्यतश्चिणिति चानुवर्तते । तदाह । अस्माच्च्लेश्चिण् नेति ॥ अवारुद्ध गौरिति ॥ स्वयमेवेति शेष वेति ॥ “ अचः कर्मकर्तरि' इत्यतस्तदनुवृत्तरिति भाव. । अवारोधि गौगपेनेति ॥ इह गो. कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः । तपस्तपःकर्मकस्यैव ॥ आद्य तपः इति षष्ठयन्तम् । तपःकर्मकस्यैव तपधातोरिति लभ्यते । “कर्तरि शप्’ इत्यत कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते । “कर्मवत्कर्मणा' इत्यतः कर्मवदित्यनुवर्तते, इति मत्वा