पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४४९
बालमनोरमा ।

अनयोः सकर्मकयोः कर्ता बहुलं कर्मवद्यगपवादश्च इयन्वाच्य इत्यर्थः । ‘मृजे श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्' (वा ५०५४) सृज्यते स्रजं भक्तः । श्रद्धया निष्पाद्यतीत्यर्थः । असर्जि । युज्यते ब्रह्मचारी योगम् । “भूषाकर्मकिरादिसनां


प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि । तथाप्यत्र मते उदुम्बरः फल पचतीत्यत्र कर्तृलकारे पचेः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाभावादुदुम्बर. फल पच्यत इति कर्मकर्तरि 'कर्मवत्कर्मणा' इति कर्मवत्वस्याप्राप्तौ ‘दुहिपच्यो.’ इति कर्मवत्वस्य बहुल पचेरपूर्वविधिरित्यन्यत्र विस्तरः । ‘सृजि युज्योश्यस्तु इति वार्तिकम्। अनयोः सकर्मकयोः इत्यादि तद्राष्यम्। अत्र सृजियुज्योर्दैवादिकयेोर्न ग्रहणम् । तयेोरकर्मकताया उक्तत्वात् । किन्तु ‘सृज विसर्गे' इति तौदादिकस्य ‘युजियेंगे' इति रौधादिकस्य च ग्रहणम् । तत्र विसर्ग उत्पादनम् । यथा प्रजास्सृजतीति । योगस्सयोजनम् । यथा अश्व युनक्तीति । रथादिना सयोजयतfति गम्यते । ससृजेः श्रद्धोपपन्ने इति ॥ श्रद्धायुक्त मुख्यकर्तर्येव उक्तो विधिरित्यर्थ । तत्र मुख्यकर्तरि अत्यन्ताप्राप्त कर्मवत्वमिह बहुल विधीयते । 'युजेस्तु कर्मकर्तयेव उक्तविधिः' इति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्या भावादप्राप्त कर्मवत्वमिह बहुल विधीयते । कर्मवत्वे सति यकिं प्राप्त तदपवादश्यन्विधीयते । तेन ‘ञ्णिल्यादिर्नित्यम्’ इत्याद्युदात्तत्व सिद्धति । यकि तु 'तास्यनुदात्तत्' इत्यादिना लसार्वधातु कानुदात्तत्वे प्रत्ययस्वरेण यक उदात्तत्व स्यान् । स्पृज्यते स्रजै भक्तः इति । अत्र मुख्यक र्तरि लकारः। कर्मवत्वादात्मनेनपदम् । यगपवादश्यन् । श्रद्धया निष्पादयतीत्यर्थः इति ॥ धातूनामनेकार्थत्वादिति भाव । सृज्यते स्रज भक्त इत्यत्र यदा तु निष्पादयतीत्येवार्थः, ननु श्रद्धयेति तदा सृजति स्रजमियेव भवति । अथ युजेरुदाहरति । युज्यते ब्रह्मचारी योगमिति । अत्र कर्मकर्तरि यगपवादः श्यन्निति भाष्यम् । योगश्चित्तवृत्तिनिरोध. योगशः स्रप्रसिद्धः । ब्रह्मचर्य स्त्रीसङ्गराहित्यम् । ‘तद्योगाङ्गम्' इति च योगशास्त्रप्रसिद्धम् । सः योग ब्रह्मचारिण युनक्ति । आत्मदर्शनेन सयोजयतीति कर्तृलकारे सयोजनक्रियाया योगो मुख्यकर्ता । ब्रह्मचारी तु कर्मेति स्थिति । तत्र कर्मणो ब्रह्मचारिण कर्तृत्वविवक्षायां युज्यते ब्रह्मचारी यो गमिति कर्मकर्तरि ब्रह्मचारिणि लकार. कर्मवत्वम् । स्वरितेत्वेऽपि कर्मवत्वात्तदेव यगपवाद ३श्यन् । ब्रह्मचारी प्राणायामाभ्यासादिश्रमबाहुळ्य विना खयमेव योगेन सबछद्यते इत्यर्थः । तत्र ब्रह्मचारिणि कर्मकर्तरि धात्वर्थसम्बन्धः अनुयोगितया वर्तते । योगे तु प्रतियोगितया वर्तत इति स्थितिः । तत्र यद्यपि प्रतियोगिनो योगात् ‘सहयुत्तेऽप्रधाने' इति तृतीया भवितव्या । तथापि युजेः प्रतियोगित्वावच्छिन्नसम्वन्धोऽर्थः । तत्र प्रतियोगित्व फल, सम्बन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वात् द्वितीयेति समाहित शब्दन्दुशखरे । अत्र भाष्ये प्रयेोगादेव योगात् द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म किरादि सन् एषा द्वन्द्वः । अन्यत्रेति स्वार्थे त्रल् । आत्मनेपदात् अन्यत्कर्मकार्यमिति लभ्यते । भूषा कर्म क्रिया येषा


१. अत्र च ‘सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्रावो वाच्यश्चिणात्मनेपदार्थः' इति भाष्यं