पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४८
[कर्मकर्तृति
सिध्दान्तकौमुदीसहिता

एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेध चिण्तु विकल्पिष्यते । शप्, लुक् । गौः पयो दुग्धे

२७६८ । अचः कर्मकर्तरि । (३-१-६२)

अजन्ताच्च्लेश्चिण्वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि-अकृत ।

२७६९ । दुहश्च । (३-१-६३)

अदोहि । पक्षे क्स । 'लुग्वा–' (सू ३६५) इति पक्षे लुक् । अदुग्ध-अधुक्षत । उदुम्बरः फलं पच्यते । 'सृजियुज्योः इयंस्तु' (वा १८७७)


हारलभ्यमेव । “अचः कर्मकर्तरि 'इत्यतो मण्डूकप्लुया तदनुवृत्तिर्वा । दुहेरननेति ॥ दुहस्नुनमाम्' इत्यनेन दुहेः कर्मकर्तरि यक एव निषेध. । चिण्तु 'दुहश्च' इति वक्ष्यमाण सूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थ । चिण्तु विक ल्पेनेष्यते इति कचित्पाठः । दुग्धे इत्यत्र प्रक्रिया दर्शयति । शप् लुगिति ॥ दुहेः कर्मकर्तरि यकि निषिद्धे शप् प्रवर्तते। तस्य ‘आदिप्रभृतिभ्य' इति लुगित्यर्थः । गौः पयो दुग्धे इति ॥ गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूताया गवि लट् । स्वरितेत्वेऽपि भावकर्मणेो इत्यात्मनेपदमेव । ‘न दुह’ इति न यक्। गा पयो दुग्धे इति तु नोदाहृतम् । 'गौणे कर्मणि दुह्या देलदयो मता.' इत्युक्ते.। अच कर्मकर्तरि ॥ 'च्लेस्सिच्' इत्यतः च्लरिति 'चिणु ते पदः इत्यतः चिण्ते इति, दीपजन इत्यतः अन्यतरस्यामिति, चानुवर्तते । ‘धातोरेकावः’ इत्यतेो अनुवृत्तस्य धातुग्रहणस्य अचा विशेषितत्वात्तदन्तविधि । तदाह । अजन्तादित्यादिना । अकारीति ॥ कटं स्वयमेवेति शेषः । कर्मकर्तरि लुइ । च्लेश्चिण् । वृद्धिः। रपरत्वम्। ‘विणो लुक्’ इति तशब्द स्य लुक् । अकृतेति ॥ विणभावपक्षे 'डूस्वादङ्गात्' इति सिचो लोप । दुहश्ध ॥ अच इति वर्ज पूर्वसूत्रं तत्रानुवृत्त, तत्सर्वमिहानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेविण्वा स्यादित्यर्थः । स्पष्ट इति न व्याख्यातम् । अनुवृतिसौकर्यार्थमेव पूर्वसूत्र प्रकृतदुद्दधातावनुपयुक्तमप्युपन्य स्तम् । अदोहीति ॥ दुहेः कर्मकर्तरि लुड् । स्वयमेव गौः पय इति शेष. । चिण्पक्षे लघू पधगुणः । चिणभावपक्षे आह । पक्षे क्सः इति ॥ ‘शल इगुपधात्’ इत्यनेनेति भावः। लु ग्वेति ॥ “लुग्वादुहृदिहलिहगुहाम्' इति क्सस्य पाक्षिको लुगिल्यर्थः । अत्र दुहिपच्योरित्यत्र पचेरुदाहरति । उदुम्बरः फलं पच्यते इति ॥ उदुम्बरवृक्ष फल पचति कालविशेषः इत्यत्र द्विकर्मकः पाचिः । इह तु इदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फल पञ्चकाश्रय करोतीत्यर्थः । अत्र उदुम्बरस्य गौणकर्मण. कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मक त्वात् “ सकर्मकाणां प्रतिषेधः' इति कर्मवत्वस्य प्रतिषेधे प्राप्त 'दुहिपच्योः ' इति कर्मवत्वस्य प्रतिप्रसवाद्यगादिकामिति भाव. । वस्तुतस्तु भाष्ये द्विकर्मकेषु पच्चरपरिगणनान्न द्विकर्म कत्वामिति कारकाधिकारे प्रपचितमस्माभिः । तथाच कर्मकर्तरि उदुम्बरः फलं पच्यते इत्यत्र फलस्यैव कर्मतया तस्य कर्तत्वविवक्षायां पचेरकर्मकत्वात् ‘सकर्मकाणाम्’ इति प्रतिषेधस्याप्रसत्ते