पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४४७
बालमनोरमा ।


ताच्छील्यादावयं चानशू न त्वात्मनेपदम् । “ सकर्मकाणां प्रतिषेधो वक्तव्यः’(वा १८७३) । अन्योन्यं स्पृशतः । अजा ग्रामं नयति । दुहिपच्योर्बहुलं सकर्मक योरिति वाच्यम' (वा १८७६) ।

२७६७ । न दुहस्नुनमां यक्चिणौ । (३-१-८९)


कर्मकर्ता अर्थः सः न कर्मस्थक्रियः । अर्थे अनुव्यवसायकृतवैलक्षण्याभावात् । किन्तु कर्तृस्थक्रिय एव । अनुव्यवसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्च कर्मवत्वाभावान्न यक् । यकि तु कित्वात् “घुमास्थागापाजहातिसाम्' इति ईत्वे अनुव्यवसीयमान इति स्यादित्यर्थः । ननु यगभावे कथं यकारश्रवणमित्यत आह । इयनीति ॥ “पो अन्तकर्मणि' इति धातोरनुव्य वपूर्वादुपसर्गवशेन निश्चयवृत्तेर्लट आनादेशे कृतेश्यनि'ओत इयनि'इत्येोकारलोपे अनुव्यवस्यमान इति रूपसिद्धेरित्यर्थः । ननु कर्मवत्वाभावे “भावकर्मणोः' इत्यात्मनेपदाभावात् कथमिह लटश्शानच् । स्यात्मनेपदत्वादित्यत आह । ताच्छील्यादाविति ॥ ‘ताच्छील्यवयो वंचनशक्तिषु चानश्’ इत्यनेन चानाशित्यर्थः । तस्य चव लादेशत्वाभावेन आत्मनेपदत्वा भावात् कर्मवत्वाभावेऽपि कर्मकर्तरि प्रवृत्तिर्निबधा । तदाह । न त्वात्मनेपदमिति ॥ ननु अन्योन्य स्पृशत स्वयमेव यज्ञदत्तदेवदत्तावित्यत्रापि कर्मवत्वाद्यगादि स्यात् । तत्र हि स्पृ शिस्सयोगानुकूलव्यापारार्थेक उभावपि कर्तारौ कर्मभूतैौ च । स्पर्शन क्रियाया एकत्वेऽपि आश्रयभेदात्तद्रेदमाश्रित्य यज्ञदत्तनिष्ठा स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम् । एवं देवदत्तनिष्टामपि स्पर्शनाक्रिया प्रति यज्ञदत्तस्य कर्मत्वम् । एवङ्कर्तृत्वमायुभयो ज्ञेयम् । एवञ्च उभयोः कर्तृत्वकर्मत्वसत्वादेकस्मिन् कर्तरि कर्मणि वा या स्पृशिक्रिया सैवे तरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्व स्यात् । आश्रयनिबन्धनं भेदमाश्रित्य तुल्य क्रियत्वेोपपत्ते. । स्पृष्टास्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावदर्शनाचेत्यत आह । सवकर्म काणां प्रतिषेधः इति ॥ एककर्मकाणां छिदिभिदिप्रभृतीना कर्मणः कर्तृत्वविवक्षया अकर्म काणां कर्तुः कर्मवत्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातव तेषा धातूना कर्मकर्तुः कर्मवत्त्वप्रतिषेधेो वक्तव्य इत्यर्थः । अन्योन्यं स्पृशतः इति ॥ कर्मवत्वे तु यकि तडि च स्पृश्येते इति स्यादिति भावः । ‘सकर्मकाणां प्रतिषेधः' इत्य स्य उदाहरणान्तरमाह । अजा ग्रामं नयतीति ॥ अजा ग्राम स्वयमेव प्राप्रेोतीत्यर्थ अत्र नयन प्रलयजायाः कमण कर्तृत्वविवक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भावः । वस्तुतस्तु गते अगते च ग्रामे वैलक्षण्याभावादेवात्र कर्मवत्वस्याप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्य स्पृशतः, अन्योन्यं सगृ हीतः, इत्येवोदाहृतामिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति ॥ कर्मवत्त्वमिति शेषः । अनयोर्द्धिकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन क मैवत्वनिषेधे प्राप्त प्रतिप्रसवोऽयम् । न दुह ॥ दुह स्नु नम् एषान्द्वन्द्वः । कर्मकर्तरीति ॥ एततु नानुवृतिलभ्यम् । पूर्वत्रानुपलम्भात् । किन्तु 'कर्मवत्कर्मणा तुल्यक्रियः’ इति समभिव्या