पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४६
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

शास्रार्थः, स्मरति, श्रद्दधाति वा ।’ यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पचकषु तण्डुलेषु, यथा वा छिन्नेषु काष्ठेषु, तत्र कर्मस्था क्रिया । नेतरत्र । न हि पकापकतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरुत्पाद् नार्थः । उत्पत्तिश्च कर्मस्था । तेन करिष्यते घट इत्यादि । यत्रार्थत्वे तु नैत त्सिद्धयेत् । ज्ञानेच्छादिवद्यदन्नस्य कर्तृस्थत्वात् । एतेनानुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छयनि कृते ओलोपे च रूपसिद्धेः ।


व्यापार विना खयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः । 'अधिगच्छति शास्त्रार्थ स्मरति श्रद्दधाति वेति॥' पूर्वार्धमिदम् । यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा’ इत्युत्तरा र्धम् । गुरुकृपालेशादेव श्रम विना स्वयमेव शास्त्रार्थ आधिगच्छति निश्चयविषयो भवति स्मृष्टः तिविषयो भवति श्रद्धाविषयेो भवतीत्यर्थः । अत्र कमेकर्तुः ग्रामादेः कर्तृस्थक्रियावत्वन कर्म स्थक्रियावत्वाभावात् न कर्मवत्वम् । अत न कर्मकार्य यगादि । किन्तु कर्तृकार्य शबादेवेति भाव. । ननु कर्मकर्तुः ग्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह । यत्रेति ॥ यत्र कियाकृत. विशेष वैलक्षण्य दृश्यते प्रत्यक्षमुपलभ्यते तत्र कर्मणि विद्यमाना क्रिया कर्म स्थाक्रयत्युच्यत इत्यन्वय । तदुदाहृत्य दर्शयति । यथा पकेषु तण्डुलेष्विति ॥ तण्डु लावस्थापेक्षया विकृित्तिकृतेो विशेषो दृश्यते इति शष । अन्यत्रापि क्रियाकृत वैलक्षण्यमुदा हृत्य दर्शयति । यथा वा छिन्नेषु काष्ठष्विति ॥ अछिन्नापेक्षया वैलक्षण्य दृश्यते इति शेषः । गच्छति ग्राम इत्यादौ तु नैवमिल्याह । नहीति ॥ ग्रामेष्विति ॥ उपलक्षणमिदम् । पञ्चकापकतण्डुलेषु यथा क्रियाकृत वैलक्षण्यमुपलभ्यते तथा गतागतग्रामे आरूढानारूढहस्तिनि अधिगतानाधिगते स्तृतास्तृते श्रद्विताश्रद्विते च शास्त्रार्थे क्रियाकृतवैलक्षण्यन्न दृश्यते इत्यर्थः । प्रामगमनादौ कर्तयैव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यन्नस्यापि कर्तृ स्थत्वात् तद्वाचिनः कृत्रेोऽपि कर्ता न कर्मवत्स्यात् । ततश्च क्रियते घटः स्वयमेवेति यगादि न सिद्येदित्याशङ्कय कृओो न यत्रार्थत्वमित्याह । करोतिरुत्पादनार्थः इति । उत्पत्त्यनुकू लव्यापारार्थक इत्यर्थ । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थ क्रियत्वन्तत्कर्तुरुपपादयति । उत्पत्तिश्च कर्मस्थेति ॥ उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्षत्वादिति भाव । तेनेति ॥ कृञ्ज. कर्तु कर्मस्थक्रियत्वेनेत्यर्थः । तथाच क्रियतेत घटः स्वयमेवेत्यत्र यक् । तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्ता इति सिद्धवत्कृत्य आह । करिष्यते घट इत्यादीति । चिण्वदिट्पक्षे कारिष्यते इति रूपम् । तदाभावपक्षे तु ‘ऋद्धनो स्ये' इति इट्। करिष्यते । सायुटश्चिण्वदिटि कारिषीष्ट । तदभावे तु कृषीष्ट । लुडि अकारिष्ट अकृत । नैतदिति ॥ कर्मवत्वन्न सिद्धेदित्यर्थ . । यतते इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोद्यम् । एतेनेति ॥ ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थ. । अनुव्यवस्यमानेऽर्थे इति । अर्थे स्वयमेव निश्चयविषयता सम्पद्यमाने इत्यर्थः । व्याख्यातमिति । समर्थितमित्यर्थः । कथ समर्थितमित्यत आह । कर्तृस्थत्वेन यगभावादिति ॥ अनुव्यवसायः निश्चयः तत्र