पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थ: पाद:]
६४१
बालमनोरमा ।


लक्षणे उशच् । अङ्कशः । 'चषेरालः । चषालो यूपकटकः' । इल्वलो दैत्य भेदः । पल्वलम् । विधृषा ण्य । ऋएकारस्येकारः । धिष्ण्यम् । शालेयै । शल्यम् । “वा पुंसि शल्यं शङ्कर्ना' ।

५४८ । मूशक्यबिभ्यः लः । मूलम् । शङ्कः िप्रयंवदे । अम्ब्लो रस । बाहुलकाद्मः । अम्लः ।

५४९ । माछाससिभ्यो यः । माया । छाया । सस्यम् । बाहुलकात्सु नोतेः । 'सव्यं दक्षिणवामयो ।

५५० । जनेर्यक् । “ये विभाषा' (सू २३१९) । जन्यं युद्धम् । जाया भार्या

५५१ । अध्न्यादयश्च । यगन्ता निपात्यन्ते । हन्तेर्यक् अडागम उपधालोपश्च ।


“तण्डुलः स्याद्विगण्डे च धान्यादिनिकरे पुमान्’ इति मेदिनी । अंकुश इति । अयमपि चित्खरेणान्तोदात्तः । तथा च मन्त्रः । दीर्घ ह्यङ्कशं पथेति ॥ चवषेराल इति ॥ प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तादयस्तु आलच इति चितमाहुः । तन्न । “चषालं ये अश्वयूपाय तक्षति । चषालवन्तस्तरवः पृथिव्याम्' इत्यादौ चित्स्वरादर्शनात् । अमरोक्तिमाह चषाल इति ॥ इल्वल इति ॥ “इल स्वप्ररणया ।' वलच् गुणाभावः । 'इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः’ इति मेदिनी । “इल्वलाः तच्छिरोदेशे तारका निवसन्ति या:’ इत्यमरः । तत्र * इल्वकाः’ इति पाठान्तरम् । तञ्च “इवि प्रीणने' ' अस्मात् क्वुन् शिल्पि संज्ञयोः' इति क्वुनि बोध्यम् । पिबतेतवेलच । लुगागमः । हस्वत्वञ्च । पिबन्त्यस्मिन् इति पल्वलम् । अल्पसर इकार इत भावो ण्यप्रत्ययश्चति बोध्यम् । “धिष्ण्यं स्थाने गृहे भेऽओं ' इत्यमर । 'धिष्ण्यं स्थानान्नि सद्मसु । ऋक्षे शक्तौ च' इति मेदिनी । “धिष्ण्य स्थाने च ऋक्षे चाम्रौ धिष्ण्यो नालये' इति धरणिः । शलेरिति ॥ 'शल्ये तु न त्रिया शङ्कौ कृीबं क्ष्वेडेषुतोमरे । मदनदुश्वाविधोनी इति मेदिनी । मृशक्य ॥ 'मूड् बन्धने ।’ ‘शक्ल शक्तौ ।’ ‘अवि शब्दे ।' 'मूलं शिफा घयोः । मूलं वित्तेऽन्तिके' इति मेदिनी । “शङ्खः प्रियवदः' इति विशेष्यनिन्नेऽमरः । “अम्लो रसविशेष स्यादम्ला चाङ्गेरिकौषधौ' इति मेदिनी । माछा ॥ 'माया स्याच्छाम्बरीबुछद्योर्माय पीताम्बरेऽसुर' इति मेदिनी । 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कोचवयो कान्तिसच्छोभापषुि स्त्रियाम्' इति विश्वमेदिन्यौ । “वृक्षादीना फलं सस्यम्' इत्यमरः । सव्यं वामे प्रतीपे च' इति मेदिनी । जनेर्यक् ॥ “जन्य हट्टे परीवादे सङ्गामे च नपुसकम् । जन्या मातृवयस्यायाञ्जन्य स्याज्जनके पुमान् । त्रिघूत्पाद्यजनित्रोश्च नवोढाज्ञाति भृत्ययोः । वरन्निग्धे' इति मेदिनी । अध्न्यादयश्च ॥ कौतेर्यतिर्डक् कुड्यमित्युज्ज्वल दत्तादयः । ‘यतोऽनावः’ इत्याद्युदात्तः । डयक्प्रत्ययोऽन्तोदात्त इत्यन्ये इति, “निवाते वात त्राणे' इति सूत्रे वृत्तिः । गुणप्रतिषेधार्थात्कारात् डकारस्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थिते यगन्ता इति प्रायोवादः । अडागम इति ॥ नञ्पूर्वाद्धन्तेर्यगिति वा बोद्यम् । विशन्तः पल्वलञ्चाल्पसरः' इत्यमर 84