पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४२
[उणादिषु
सिध्दान्तकौमुदीसहिता

अध्न्या माहेयी । अध्न्यः प्रजापतिः । *कनी दीप्तौ ' । कन्या । बवयोरैक्यम् । वन्ध्या ।

५५२ । स्रामदिपद्यर्तिपृशकिभ्यो वनिप् । स्रावा रसिकः । मद्वा शिवः । पद्वा पन्था । “ अर्वा तुरङ्गगाह्ययोः' । पर्वे ग्रन्थिः प्रस्तावश्च । शका हस्ती । डीब्रौ । शकरी अङ्गलि ।

५५३ । शीङ्कुशिरुहिजिक्षिस्पृधृभ्यः कानिप् । शीवा अजगर । कुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । स्मृत्वा प्रजापतिः । धृत्वा

५५४ । ध्याप्योः संप्रसारणं च । धीवा कर्मकरः । पावा स्थूल ।

५५५ । अदेर्ध च । अध्वा ।

५५६ । प्र ईरशदोस्तुट् च । प्रेत्व प्रशत्वा च सागरः । प्रेत्र्वरी प्रश त्वरी च नदी ।

५५७ । सर्वधातुभ्य इन् । पचिरन्नि । तुडिः । तुण्डिः । वलिः । वटि: । यजि: । देवयाजि: । काशत इति काशिः । यतिः । मलिः । मली । केलिः । ‘मसी परिणामे ।' मसिः । बाहुलकादुणः । कोटिः । हेलिः । बोधिः । नन्दुिः । कलिः ।


अध्न्या इति ॥ यत्तु “ अध्न्यस्य मूर्द्धनि' इति मन्त्रे वेदभाष्यकारैरुक्तम् । 'हन्तुमशक्यो ऽध्न्यः पर्वतः’ इति तत् प्रकृतसूत्रमभिप्रेयैव । यत्तु अहननमन्नः तमर्हतीत्यर्थे 'छन्दसि च' इति य इति तत्रैवोक्तम्, तदुपायान्तरपरतया बोछद्यम् । 'माहेयी सौरभेथी गौरुस्रा माहा च श्रृङ्गिणी । अर्जुन्यग्ध्न्या रोहिणी स्यात्' इत्यमरः । सम्पूर्वाद्धानो यक् । आतो लोपश्च । 'सन्ध्या पितृप्रसूनद्याश्चिन्तामर्यादयोरपि । प्रज्ञाया च सन्ध्याने सन्ध्या च कुसुमान्तरे' इति विश्वः । 'सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु' इति मेदिनी । “सन्ध्या कुमारिका नार्यो रोषधीराशिभेदयोः' इति विश्वमेदिन्यौ । वन्ध्येति ॥ “बन्ध बन्धने ।' 'वन्ध्यस्त्वफलवृक्षादौ त्रियां स्यादप्रजःत्रियाम्' इति मेदिनी । स्नामदि ॥ “ अर्वा तुरङ्गमे पुसि कुत्सिते वाच्य लिङ्गके' इति मेदिनी । * पर्व हीबं महे ग्रन्थौ प्रबले लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि' इति च । अंगुलिरिति ॥ एतच “आरोहतन्दशतं शकरीर्मम' इत्यादि मन्त्रव्याख्याया स्पष्टम्। ‘शकरी च्छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी । सर्वधातुभ्य इन् ॥ यतिरिति ॥ “यती प्रयत्रे ।' 'यति: त्री पाठविच्छेदे निकारयतिनोः पुमान्’ इति मेदिनी । 'कोटिः स्त्री धनुषोऽग्रेऽश्रौ सङ्खयाभेदप्रकर्षयोः । बोधि. पुंसि समाधेश्च भेदे पिप्पल पादपे । नन्दिताङ्ग आनन्द स्त्री नन्दिकेश्वरे पुमान् । कलिः स्त्री कलिकायां ना शराजिकलहे