५४३ । रुशातिभ्यां कुन् । रुगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्रस्वत्वम् ।
५४४ । जनिदाच्युस्सृष्टमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्रक्रिन्शक्स्यढड टाटचः । जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्रो गन्ताण्डजः क्षीण पुण्यश्च । सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च । बृश आद्रेकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलषः । बिभर्ति भरटः कुलालो
५४५ । अन्येभ्योऽपि दृश्यन्ते । पेत्वममृतम् । भृशम् ।
५४६ । कुसेरुम्भोमेदेताः । कुसुम्भम् । कुसुमम् । कुसीद्म् । कुसितो जनपदः ।
५४७ । सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्य शल्याः । सनोतेरसिप्रत्यय उपधावृद्धिः । सानासिार्हरण्यम् । वृञ्जो नुक्च । वर्णसिर्जलम् । पृ । पर्णसिर्जलगृहम् । “तड आघाते' । तण्डला । अकि
जत्रु स्कन्धसन्धिः । “सन्धी तयैव जत्रुणी' । तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यमर इत्यर्थः । रुशातिभ्याम् ॥ 'रुरुर्देये मृगेऽपि च' इति मेदिनी । जनिदा ॥ नवभ्यो यथासङ्खय नव स्यु. । जनेरित्वन् इकारोच्चारणमुत्तरार्थम् । जनरिटा सिद्धत्वात् । सृणिरिति ॥ नित्स्वरेणाद्युदात्तोऽयम् । 'सृवृषिभ्याङ्कित्' इति निप्रत्यये त्वन्तोदात्तः । मत्स्य इति ॥ अन्तोदात्तोऽयम् । 'ऋतन्यञ्जि' इति सूत्रे तु आद्युदात्तः साधितः । षण्ढ इति ॥ “षम ष्टम वैकल्ये ।' बाहुलकात्सत्वाभाव । “शमो ढ:’ इति सूत्रे तु तालव्यादिः साधितः । “सायं सायो भवेत्कोषः कोशः षण्ढश्च शण्ढवत्' इति द्विरूपकोश । कैयटस्तु 'ठस्येक:’ इति सूत्रे शण्ढ इति प्रतीकमुपादाय , ‘। 'नटी नीलौषधौ जनिदाच्यसृ' इत्यनेन ढप्रत्यये शण्ढ इत्याह स्री स्यात् शैलूषाशोकयोः पुमान्' इति मेदिनी । अन्येभ्योऽपि दृश्यन्ते ॥ इत्वन्नादयो ऽनुवर्तन्ते । कुस ॥ “कुस श्लेषणे ।' 'कुसुम् हेमनि महाराजते ना कमण्डलौ' इति मेदिनी । “कुसुम स्त्रीरजोनेत्ररोगयो. फलपुष्पयोः' इति च । “कुसीद जीवने वृद्या लीबं त्रिषु कुसीदके' इति च । इह सूत्रे तृतीयो हस्वादिदघौदिश्च तन्त्रेणोपात्त. । 'वृषाकग्यमि' इति सूत्रे हस्व एवेति वृत्तिकारहरदत्तादिप्रयोगोपष्टम्भेन निर्णीतम् । 'पारलौकिककुसीदकमासीत् इति श्रीहर्षः । उक्तश्च “गाण्ड्यजगात्' इति सूत्रे हस्वदीर्घयोस्तन्त्रेण निर्देशो वामनेनेति दिक् । उज्ज्वलदत्तमतेनाह वृञ्जो नुक्चेति ॥ दशपाद्यान्तु सानसिधर्णसीति पठित्वा । धृो नुक् च, धर्णसिलोकपालः इति व्याख्यातम् । युक्तचैतत् । धर्णसिम्भूरिधायसमित्यादि दर्शनात् । तण्डुला इति ॥ उलच्प्रत्ययः, नुगागमः । ‘त्रेधा तण्डुलान् विभजेत् ।’ चित्स्वरः ।