पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थ: पाद:]
६३९
बालमनोरमा ।


५३१ । कुवश्चट्दीर्घश्च । कूची चित्रलेखनिका ।

५३२ । समीणः । समीचः समुद्र: । समीची हरिणी ।

५३३ । सिवेष्टरू च । सूचो दर्भाडुरः । सूची ।

५३४ । शमेर्वन् । शम्बो मुसलम् ।

५३५ । उल्बादयश्च । बन्नन्ता निपात्यन्ते । “उच समावाये' । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । निम्बः । बिम्बम् ।

५३६ । स्थः स्तोऽम्बजबकौ । तिष्ठतेरम्बच् अबक एतौ स्तः स्तादेशश्च । स्तम्बा गुच्छस्तृणादिनः । स्तवकः पुष्पगुच्छः ।

५३७ । शाशांपेभ्यां ददन ! * शादो जम्बालशष्पयो ' । शब्दः ।

५३८ । अब्दादयश्च । अवतीत्यब्दः। ‘कौतेर्तुम्(च)' (ग २०५)। कुन्दः ।

५३९ । वलिमलितनिभ्यः कयन् । वलयम् । मलय: । तनयः ।

५४० । छह्याः षुग्दुकौ च । वृषय आश्रयः । हृदयम् ।

५४१ । मिपीभ्यां रुः । मेरुः । पेरुः सूर्यः । बाहुलकात्पिबतेरपि । 'संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।

५४२ । जवादयश्च । जत्रु । जत्रुणी । अश्रु । अश्रुणी ।


कुकूलान्निकर्कशो मदनानल’ इति प्रयोगश्च । कुवश्चट् दीर्घश्च ॥ कूचः स्तनः । 'कुचकूचौ स्तने मतौ' इति विश्वः । कूचीति ॥ टित्वान्डीप् । समीणः ॥ इणः सम्युपपदे वट् स्यात् । दीर्घत्वञ्च धातोः । सिवेः ॥ 'सूची तु सीवनद्रव्ये आङ्गिकाभिनयान्तरे' इति मेदिनी । शमेः ॥ 'शम्बः स्यान्मुसलाप्रस्थलोहमण्डलके पौ । शुभान्विते त्रिषु' इति विश्वमेदिन्यौ । उल्बाद्यश्च ॥ ‘गर्भाशयो जरायुः स्यादुल्बच कललोऽस्त्रियाम्' इत्यमरः । शुल्बमिति ॥ शुच शोके ।' लत्वादि प्राग्वत् । “शुल्वे तात्रे यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनी हेमचन्द्रौ । वतेर्नुमागमो हृखत्वञ्च । “बिम्बस्तु प्रतिबिम्बे स्यात् मण्डले पुन्नपुंसकम् । बिम्बिकायाः फले कृीब कृकलापे पुनः पुमान्' इति मेदिनी । स्थः स्तः ॥ “स्तम्बो गुल्मे तृणादीनामप्रकाण्डदुमेऽपि च' इति विश्वः । “स्तम्बोऽप्रकाण्डदुमगुच्छयो.’ इति मेदिनी । स्यात् गुच्छकस्तु स्तबकः' इत्यमरः । शाशपि ॥ “शादः स्यात् कर्दमे शष्पे' इति मेदिनी । अब्दः सवत्सरे वारिवाहमुस्तकयोः पुमान् । कुन्दो माध्येऽत्री मुकुन्दभ्रमिनिध्यन्तरेषु ना इति च । वलिमलि ॥ * वलयः कण्ठरोगे ना कङ्कणे पुन्नपुसकम्' इति मेदिनी । “मलय पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायान्तु योषिति' इति च । “ आत्मजस्तनय. सूनु सुतः पुत्रः ' इत्यमर । वृह्वोः ॥ ह्रियते विषयैः हृदयम् । हट्टचन्द्रोक्तिमाह । संवत्स रेत्यादि ॥ जञ्वादयश्च ॥ रुप्रत्ययान्ता निपात्यन्ते । “जनी प्रादुर्भावे ।' नकारस्य तकार ।