पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३८
[उणादिषु
सिध्दान्तकौमुदीसहिता



५२४ । कलिकद्यॉरमः । कलम: । कर्दम ।

५२५ । कुणिपुल्योः केिन्दच् । “कुण शब्दोपकरणयोः' । कुणिन्दः

शब्दः । पुलिन्दो जातिविशेष

५२६ । कुपेर्वा वश्च । कुपिन्दकुविन्दौ तन्तुवाये ।

५२७ । नौ षडैर्घथिन् । निषङ्गथिरालिङ्गकः ।

५२८ । उद्यतेंश्चित् । उद्रथिः समुद्रः ।

५२९ । सतेर्णिञ्च । सारथि ।

५३० । खर्जिपिञ्जादिभ्य ऊरोलचो । खर्जर । कपूँरः । वल्लूरं शुष्क मांसम् । पिचूलं कुशवर्तिः । “लङ्गेर्तृद्धिश्च' (गण २०१) । लाडूलम् । कुसूलः । “तमेर्जुग्वृद्धिश्च' (गण २०२) । ताम्बूलम् । “श्रृणातेर्तुग्वृद्धिश्च (गण २०३) शार्दूलः । “दुकोः कुक्च' (गण २०४) । दुकूलम् । कुकूलम् ।


कलि । ‘कलमः पुसि लेखन्यां शालौ पाटच्चरेऽपि च' इति मेदिनी । कुपेवों ॥ ‘कुप क्रोधे ।’ श्व वा । तन्तुवाय कुविन्द स्यात् इत्यमरः । बाहुलकात् 'अल मूषणादौ ।’ अलिन्द । ‘यस्यामलिन्देषु न चकुरेव मुग्धाङ्गना गोमयगोमुखानि ' इति माघः । प्रज्ञादित्वादाणि दीघदिरग्यम् । निषङ्गाथरिति ॥ 'चजो ' इति कुत्वम् । “ आभुरस्य निषङ्गथि’ ।” रथकूबर इत्यर्थ. । सर्तेः ॥ 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारराथ .’ इत्यमरः । खर्जिपिञ्जादिभ्यः ॥ 'खर्ज मार्जने' एवमादिभ्य ऊर’ । “पिञ्ज हिसायाम् ' । एवमादिभ्य ऊलच् । 'खर्जुर रूप्यफलयो” खजूर कीटवृक्षयो' इति मेदिनीहेमचन्द्रौ । कृपू सामथ्र्ये ।' बाहुलकाछत्वाभाव । 'अथ कपूरमस्त्रियाम् । घनसारश्चन्द्रसज्ञ सिताभ्रो हिमवालुका' इ ५:मर. । “वल सवरणे ।' वल्लूरम् । “उत्तप्त शुष्कमास ख्यात्तद्वल्लूर त्रिलिङ्ग कम्' इत्यमरः । एव शालूरमण्डूरादयः । “भके मण्डूकवर्षाभूशालूरवदर्दूरा ' इत्यमरः । ‘अथ मण्डूर 'शिङ्काणमपि तन्मले' इति च । तन्मले तस्य पूर्वोक्तस्य लोहस्य मले इत्यर्थ । “लाङ्गलं पुच्छशेफसोः' इति मेदिनी । कुसूल इति ॥ 'कुस श्लेषणे ।' दन्त्यसकारवान् । कुसूलश्च कुसीदश्च मछद्यदन्त्यमुदाहृतम्' इति विश्व . । ताम्बूलादयोऽप्यत्र । “तमु ग्लानौ ।’ ताम्बूली नागवल्ल्यां स्त्री कमुके तु नपुसकम्' इति मेदिनी । ‘शू हिंसायाम् ।' धातोवृद्धिः । दुगागमश्च । 'शार्दूलो राक्षसान्तरे । व्यान्ने च पशुभेदे च सत्तमे तूत्तरस्थिते' इति मेदिनी विश्वप्रकाशौ । उत्तरस्थितमुत्तरपदम् । राजशार्दूल इति यथा । 'दु गतौ', 'कुड् शब्दे ’ अनयोः कुक् च । “दुकूल श्लक्ष्णवत्रे स्यात्क्षौमे च' इति मेदिनी । 'कुकूल शडुसङ्कीर्णेश्वश्रे ना तु तुषानले' इति विश्वमेदिन्यौ । ‘शिरीषादपि मृद्वङ्गी कयमायतलोचना । अय कच