पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२८
[उणादिषु
सिध्दान्तकौमुदीसहिता

४३६ । अशेर्नित् । आक्षि ।

४३७ । इषेः क्सुः । इक्षुः ।

४३८ । अवितृस्तृतान्त्रिभ्य ईः । 'अवीनरी रजस्वला' । तरीनः । स्तरीधूम । 'तन्त्रावाणादगुण ।

४३९ । यापोः किद्दे च ॥ ययीरश्व । “पपी: '। स्यात्सामरसूयया

४४० । लक्षमुट् च । लक्ष्मा ।

॥ इत्युणादिषु तृतीयः पादः ॥

॥ अथ उणादिषु चतुथेः पादः ।

४४१ । वातप्रमीः । वातशब्द उपपदे माधातोरीप्रत्ययः । स च कित् । वातप्रमा । अय स्रापुसया ।

४४२ । ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्रिज्यतुजलिः जिघुजिष्ठजिसन्स्यानिथिनुल्यसासानुकः । द्वादशभ्यः क्रमात्स्युः। अर्तेः कत्रिच्। यण् । “बद्धमुष्टिः करो रात्रिः सोऽरात्रिः प्रसृताडुलि ' । तनोतेर्यतुच् । तन्य तुर्वायू रात्रिश्च । अजैरलिच् । अञ्जलिः । वनेरिटुच् । वनिघुः स्थविरान्त्रम् ।


लक्षेर्मुट् च ॥ लक्ष दर्शनाङ्कनयो ।' चुरादिण्यन्तः । अस्मादीप्रत्यय स्यात् । तस्य मुडागमश्च । णिलोप । “लक्ष्मीः सम्पत्तिशोभयो । ऋद्धौषधौ च पद्माया वृद्धिनामौषधेऽपि च । फलिन्यां स्त्री' इति मेदिनी ॥

इत्युणादिषु तृतीयः पादः ।

अयमिति ॥ *द्विचतुषट्पदोरगाः' इत्यमरेणोभयलिङ्गोत्ते’, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य िद्वलिङ्गतोतेश्चति भावः । तत्र 'कृदिकारात्' इति पाक्षिको डीष् कैश्चिदिष्यते । न हि “कारग्रहणे केवलग्रहणम्' इति मुनित्रयेण परिभाषितम् । अत एव “वातप्रमीश्री लक्ष्मीति पक्ष डयन्ता सुमाधव ' इति रक्षितः । एतन्च दुधवटप्रन्थ स्पष्टम् । “ आशीराश्यहि दंष्ट्राया लक्ष्मीर्लक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोश । अत एव “ आशीविषो विषधरः’ इति सङ्गच्छते । “ आशीमिव कलामिन्दो' इति राजशेखरः । “ आशीर्हिताशसाहिंदष्ट्रयो' इति सान्ते अमरात् सान्तोऽप्याशी शब्द इत्यन्यदतत् । बद्धेति ॥ “मुष्टया तु बद्धया । सरन्नि स्यात्' इत्यमर । सहस्त इत्यथ । प्रसङ्गादाह । अरन्निरिति । न रात्रिः अरात्रि इति नञ्समासः । दशपादीवृत्तौ तु इह सूत्रे अर्तेरन्निचमकितं विधाय अरन्नि साधितः । उज्ज्वल दत्तानुसारेणाह । वायू रात्रिश्चति ॥ इह शब्दो मेघः, अशनिश्वत्यपि बोछद्यम् । “ आविष्कृतः णोमि तन्यतुर्न वृष्टिम्’ इति मन्त्रे तन्यतुर्गर्जितमिति, “सृजावृष्टि न तन्यतुः' इति मन्त्रे तन्यतुर्मेघ इति, ‘दिवश्चित्रं न तन्यतुः’ इति मन्त्रे तन्यतुरशनिरिति वेदभाष्ये