पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थ: पाद:]
६२९
बालमनोरमा ।


अखेरिष्टच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिमोऽग्रमांसम् । मदेः स्यन्, मत्स्यः । अतेरिथिन्, अतिथिः । अङ्गरुलिः, अङ्गुलि । कौतेरसः, कवस्म: । अच इत्येके । कवचम् । यौतेरामः, यवासो दुरालभा । कृशेरानुक् : कृशानुः ।

४४३ । श्रः करन् । उत्तरसूत्रे किद्रहणादिह ककारस्य नेत्वम् । शकेरा ।

४४४ । पुपः कित् । पुष्करम् ।

४४५ । कलश्च । पुष्कलम् ।

४४६ । गमेरिनिः । गमिष्यतीति गमी ।

४४७ । आडिः णित । आगामी ।

४४८ । भुवश्च । भावी ।

४४९ । प्रेः स्थः । प्रस्थायी ।

४५ । परमे कित् । परमेष्ठी ।

४५१ । मन्थः । मन्थतेरिनिः कित्स्यान् । किन्त्वान्नकारलोपः । मन्था मन्थाना-मन्थानः ।

४५२ । पतस्थ च । पन्थाः -पन्थानौ ।


व्याख्यातत्वान् । “ अञ्जलितु पुमान् हस्तमम्पुटे कुटवेऽपि च' इति मेदिनी । स्थावरान्त्रः मान् ॥ 'वनिष्ठार्हदयादधि ' इति मन्त्रस्य भाष्ये तयोक्तत्वात् । अञ्जिष्ठ इति ॥ केचिद डेरिष्णुचमिच्छन्ति । तेषामञ्जिष्णुरित्युदाहरणम् । मदेरिति ॥ 'मत्स्यो मीनेऽथ पुभूत्रि देशे' इति मेदिनी । “अतिथिः कुशपुत्रे स्यात् पुमानागन्तुके त्रिषु । अडुलि करशाखायां कर्णिकायाङ्गजस्य च' इति मेदिन । कवसः सन्नाह कङ्कटजातिश्च । अच इति ॥ कवचो दुर्गभाण्डे च सन्नाहे पर्पटेऽपि च' इति मेदिनी । पुषः ॥ पुष्यतः करः स्यात् । स च कित् ! 'पुष्कर खऽम्बुपद्मयोः । तूर्यवक्रे खङ्गफल हस्तिहस्ताप्रकाण्डयो . । कुष्ठौषधे द्वीपतीर्थ भेदयोश्च नपुमकम् । न, रागनागविहगनृपभेदेषु वारुणौ ’ इति मेदिनी । कलंश्च ॥ पुष्यतेः कलन् कित्स्यात् । पुष्कलसुतु पूर्णे श्रछे' इति हेमचन्द्र । मन्था इति ॥ पथिमथील्यात्त्वम् । इतोऽन्सर्वनामस्थाने । “मन्था मन्थनदण्डे च व्रज वातेऽपि च स्मृत” ।' पन्था इत ॥ पथे गतौ अस्मात्पञ्चाद्याच अकारान्तोऽप्यस्ति । 'वाट पथश्च मार्गश्च' इति सुभूतिचन्द्रपुरु षोत्तमौ । “त्वाचव त्वचः किरोऽपि स्थात् किरो प्रोक्त. पथः पथि' इति द्विरूपषु विश्व । इह ऋभवो देवा क्षयन्त्यमि.ित िवग्रहे “ अन्येभ्येऽपि दृश्यते ? इति ड. । “ ऋभुक्ष खर्गवज्रयेो : इति विश्वः । ततो मत्वर्थीये इनिः । ऋभुक्षिन्निति नान्त प्रातिपदिकम् । आत्त्वमत्वं च । ऋभुक्षा इन्द्र. । ऋभुक्षाणौ ऋभुक्षाणः इत्युज्ज्वलदत्तः । दशपाद्यान्तु “अर्तेर्भक्षिक्षिनक्’ इति सूत्रमुपन्यस्तम् । *ऋभुक्षणमिन्द्रमाहुव ऊतये' इति मन्त्रस्य वेदभाष्येऽपि तत्सूत्रमुदाहृतम् ।