पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६२७
बालमनोरमा ।


४२० । दीडो नुट् च । दीनारः सुवर्णाभरणम् ।

४२१ । सर्तरपः षुक्च । सर्षपः ।

४२२ । उषिकुटिदलिकविखजिभ्यः कपन् । 'उषपो वह्निसूर्ययोः' । कुटपा मानभाण्डम् । दलपः प्रहरणम् । कचप शाकपत्रम् । खजप घृतम् ।

४२३ । कणेः सम्प्रसारणञ्च । कुणपम् ।

४२४ । कपश्चाक्रवर्मणस्य । स्वरे भेदः ।

४२५ । विटपपिष्टपविशिपोलपाः । चत्वारोऽमी कपन्प्रत्ययान्ताः । ‘विट शब्दे' । “विटप:' । विशतेरादेः प: । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः सम्प्रसारणम् । ‘उलपं कोमलं तृणम्' ।

४२६ । वृतेस्तिकन् । वत्तिका ।

४२७ । कृतिाभिदिलातिभ्यः कित् । कृत्तिका । भित्तिका भित्तिः । लतिका गोधा

४२८ । इष्याशभ्या तकन् । इष्टका । अष्टका ।

४२९ । इणस्तशन्तशसुनी । एतशो ब्राह्मणः । स एव एतशाः ।

४३० । वीपतिभ्यां तनन् । “वी गत्यादौ' । वेतनम् । पत्तनम् ।

४३१ । दृदलिभ्यां भः । दर्भ: । 'दल्भः स्यादृषिचक्रयोः' ।

४३२ । अर्तिगृभ्यां भन् । अभैः । गर्भः ।

४३३ । इणः कित् । इभः ।

४३४ । आसिाञ्जिभ्यां क्थिन् । अस्थि । सक्थि ।

४३५ । प्लुषिकुषिशुषिभ्यः क्सिः । प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।


सरसी सर ।' कणेणः ॥ “कुणपः पूतिगन्धे शवऽपि च' इति मेदिनी । विटपापिष्टप ॥ विटपो न स्त्रिया स्तम्बशाखाविस्तारपछवे । पीठाधिपे च' इति मेदिनी । आदेः प इति । एतच्चोज्ज्वलदत्तरीत्योक्तम् । अन्ये तु सूत्र “विष्टप' इति दन्त्योष्ठयादिमेव पठन्ति । युक्तचैतत् । “यत्र ब्रध्रस्य विष्टपम्' इत्यादौ तथा दर्शनात् । “उलपो न स्त्री गुल्मिन्या ना तृणान्तरे' इति मेदिनी । लतिकेति ॥ लतिः सौत्रः । इष्टकेनि ॥ “इष्टके षीकामालानाम्' इति निर्देशात् 'प्रत्ययस्थात्' इति नत्वम् । अर्तिगृ ॥ 'गर्भ धूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी । इणः ॥ *इभ स्वम्बरमः पद्मी' इत्यमरः ।