४१० । भन्देर्नलोपश्च । भदन्तः प्रव्रजितः ।
४११ । ऋच्छेरः । ऋच्छरा वेश्या । बाहुलकाज्जर्जरझराद्यः ।
४१२ । अर्तिकामिभ्रमिचमिदेविवासिभ्यचित् । षड्भ्योऽराश्चित्स्यात् । अर कपाटम् । कमरः कामुकः । भ्रमर: । चमरः । द्वरः । वासरः ।
४१३ । कुवः क्ररन् । कुरः पक्षिभेदः ।
४१४ । आङ्गमादमान्दभ्य आारन् । अङ्गारः । मद्ररो वराहः । ‘मन्दार पारिजातक: ।
४१५ । गडः कड च ! कडारः ।
४१६ । शृङ्गारभृङ्गारो । शूभृञ्भ्यामारन्नुम्गुग्घस्वश्च । शृङ्गारो रसः । 'श्रृङ्गार.कनकालुका ।
४१७ । कञ्जिमृजिभ्यां चित्। कञ्चिः सौत्रः। कञ्जारो मयूरः। मार्जारः।
४१८ । कमेः किदुचोपधायाः । चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।
४१९ । तुषारादयश्च । तुषार । कासारः । सहार आम्रभेदः ।
इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितत्वात् । बाहुलकादिति ॥ ‘जर्जर शैवले शक्रध्वजे त्रिषु जरत्तरे । झईर स्यात् कलियुगे वाद्यभेदे नदान्तरे' इति मेदिनी । अर्तिकमि ॥ अर छदकपाटयोः । भ्रमर. कामुके भृङ्गे चमरञ्चामरे स्त्री तु मञ्जरीमृगभेदयोः’ इति च मेदिनी । वासर इति ॥ वसेण्र्यन्तादरः । केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा 'वाश्ट शब्दे' वाश्यते वाशर, कोकिल इत्याहुः । अङ्गिमदि ॥ “अङ्गार उल्मुके न स्त्री पुलिङ्गस्तु महीसुते' इति मेदिनी । 'मन्दारः स्यात् सुरदुमे । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयो' इति च । “मदि स्तुत्यादौ' इत्यस्मात् बाहुलकादारुरपि । पारिभद्र तु मन्दारु मैन्दारः पारिजातक ' इति शब्दार्णव । गडेः ॥ “कडारः कपिले दासे ' इति मेदिनी । श्रृङ्गारभृङ्गारौ ॥ 'श्रृङ्गारः सुरते नाट्ये रसे च गजमण्डने । नपुसक लवज्ञेऽपि नाग सम्भवचूर्णयो.’ इति मेदिनी । 'भृङ्गारी झिलिकायां स्यात् कनकालौ पुनः पुमान्’ इति च । कञ्जिमृजिभ्यां ॥ 'कञ्जारो जठरे सूर्ये विरिधौ चारणे मुनौ' इति विश्वमेदिन्यौ । 'मार्जर आतौ खटाङ्गे' इति च । कमेः ॥ 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालकं वरुणाद्रौ ना न द्वयोर्जालयकाश्चने । कुमारी शैलतनयावनकाल्योर्नदीभिदि । सहापराजिता कन्याजम्बूद्वीपेषु च स्त्रियाम्' इति मेदिनी । विश्वप्रकाशे तु 'कुमारी रामतरणी' इति पाठः । रामतरणी लताविशेषः सहेति प्रसिद्ध । “तरणी रामतरणी कणिका चारुकेसरा । सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टु । ‘जम्बूद्वीपसहाकन्याकुमार्योऽथाश्ववारके । बालके कार्तिकेये च कुमारी भर्तृदारके' इति त्रिकाण्डशेषः । “तुषारस्तुहिन हिमम् । कासारः