पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२४
[उणादिषु
सिध्दान्तकौमुदीसहिता

३९३ । शीङ्शपिरुगमिवविज्जीविप्राणिभ्योऽथः । सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वचथो धूर्त: । वन्दीति पाठे कर्मणि कर्तरि वा प्रत्ययः वन्द्यते वन्दते वा वन्दथ स्तोता स्तुत्यश्च । जीवथः आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिद् मिभ्याम् । 'शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः' ।

३९४ । भृञ्जांश्चत् । भरथो लोकपालः ।

३९५ । रुदिविदिभ्यां डिन्त । रोदितीति रुदथः शिशुः । वेत्तीति विद्थः ।

३९६ । उपसर्गे वसेः । आवसथो गृहम् । संवसथो ग्रामः ।

३९७ । अत्यविचमितमिनमिराभिलभिन्नभितपिपतिपानिपाणिमहेिभ्यो ऽसच् । त्रयोदशभ्योऽसच्स्यात् । अतीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमन्यस्मिश्चमसः सोमपानपात्रम् । ताम्यत्यस्मिन्निति तमसो ऽन्धकारः । नमसोऽनुकूलः । 'रभसो वेगहर्षयोः' । लभसो धनं याचकश्च । नभते नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कण्टकिफलः' । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।

३९८ । वेङअस्तुट् च । बाहुलकादात्वाभावः । वेतसः ।


रजतन्त्रिषु शुळे स्यात् लीबं हारे च दुर्वणे ' इति मेदिनी । ३ीड्शपि ॥ उज्ज्वलदत्तेनात्र पञ्चमो वञ्चि. पठ्यते । अन्यैस्तु वन्दि . । बञ्चथवन्दथयेोरन्यतर वेदादुपलभ्य बहुश्रुतैः पाठो निर्णेयः । बाहुलकादिति ॥ “शमथः शान्तिमन्त्रिणो.' इति मेदिनी । “दमथस्तु पुमान् दण्डे दमे च परिकीर्तित.’ इति चव । रुदिविद् ि॥ 'विदथो योगिकृतिनो.' इति मेदिनी । अत्रोज्ज्वलदत्तः “रुविदिभ्याङ्कित्' इति पठित्वा रौतीति रुवथः श्वेत्युदाजहार । दशपादी वृत्तिकारस्तु “रुदिविदिभ्याङ्कित्' इति पाठ । किं चोपसर्गे वसेरित्यवरूपमुत्तरसूत्रन्द्वावपि न पेठतुः । तथा हि । शीड्शपीति सूत्रानन्तरं सोपसर्गाद्वसे. भृङआश्चित् रुदिविदिभ्याङ्कितत् । इत्युज्ज्वलदत्तस्य सूत्रपाठ । अन्यस्य तु शीड्शपीति सूत्रानन्तरम् आडिवसेः, भृङअश्चित्, रुदिविदिभ्याङ्कित्, इति सूत्रपाठ. । तदेतत्पाठद्वय भाष्यादिविरोधादुपेक्षितम् । तथा हि । गाङ्कटादिसूत्रे के पुनश्चडादयः चड् अङ् नजिङ्अवड्नड. इति भाष्यम् । 'रुदिविदिभ्याङ्कित इत्यनुवर्तमाने उपसर्गे वसेरित्यथप्रत्यय इति कैयटेन व्याख्यातम् । एवञ्च कुर्वता भाष्यादिविरोधः स्पष्ट एवेत्यास्तान्तावत् । भाष्यकैयटमतेऽपि डिदित्यस्यानुवृत्तेः फलचिन्त्यम् । अत्यविच मि ॥ गौरादित्वात् डीष् । “अतसी स्यादुमा क्षुमा' इत्यमर । ‘चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके त्रियाम् । पनसः कण्टकिफले कन्दके वानरान्तरे । त्रिया रोगप्रभेदे स्यात्' इति