पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६२३
बालमनोरमा ।


३८५ । अमिनक्षियजिवधिपतिभ्योऽत्रन् । अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं तनूरुहम् ।

३८६ । गडेरादेश्च कः । कडत्रम् । डलयेोरेकत्वस्मरणात्कलत्रम् ।

३८७ । दृञ्जवित् । वरत्रा चर्ममयी रज्जुः ।

३८८ । सुवेदेः कत्रः । “सुविदलं कुटुम्बकम् ' ।

३८९ । कृतेर्तुम्च । कृन्तत्रं लाङ्गलम् ।

३९० । भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् । दशभ्योऽत च्स्यात् । भरतः । मरतो मृत्युः । 'दर्शतः सोमसूर्ययोः' । यजतः ऋत्विक् । पर्वतः । पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।

३९१ । पृषिरञ्जिभ्यां कित् । पृषतो मृगो बिन्दुश्च । रजतम् ।

३९२ । खलतिः । स्खलतेः सलोप । अतच्प्रत्ययान्तस्येत्वञ्च । खलति निष्केशशिरा


अमि ॥ ‘नक्ष गतौ' । वधिः प्रकृत्यन्तरम् । नक्षत्रमिति । ‘नभ्राण्नपात्’ इति सूत्रे नञ्जः प्रकृति भाव उक्त.। क्षदेः सौत्रे ऋनि नञ्समासे व्युत्पत्त्यन्तरं तदिति बोछद्यम् । यजत्रं अन्निहोत्रमिति प्राञ्चः। वस्तुतस्तु यजत्रो यष्टव्यदेवता । ‘सन्तो वायुर्वातेन गच्छता सयजत्रैरङ्गानि' इति मन्त्रे तथा दर्शनात् । गडेः ॥ ‘गड सेचने’ ‘कळत्र श्रेणिभार्ययोः' इत्यमरः । वृञ्ज ॥ चित्वादन्तोदात्त. । ‘वरत्रायान्दार्वा नह्यमानः ।' सुविदेः कत्रः ॥ इह प्रायेण कत्रनिति नित पठन्ति । तत्प्रामादि कम् । ‘बृहस्पतेः सुविदत्राणि राद्येत्यादौ नित्स्वरादर्शनात् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्यय स्वरस्यैव दर्शनाच्च । “धन्वचयत्कृन्तत्रञ्च' इति मन्त्रेऽपि तथैव । “कृन्तत्रङ्कर्तनीयमरण्यम् इति वेदभाष्यम् । भृमृदृशियाजिपर्विपच्य ॥ 'भृञ् भरणे' 'मृड् प्राणत्यागे' ‘दृशिर् प्रेक्षणे' दशपायान्तु * भृदृशीङ्' इति पठित्वा “दृड् आदरे शयतः इत्युदाहृतम् । तन्न । रुशन्तमग्न्दिर्शत बृहन्तम् । तरणिर्विश्वदर्शतः। दैव्यो दशतो रथः इत्यादिमन्त्रैस्तद्राष्येण च विरोधातू । “भरतो नाट्यशास्त्रे मुनौ नटे । रामानुजे च दौष्यन्तौ ' इति मेदिनी । यजतः ऋत्विगिति ॥ उज्ज्वलदत्ताद्यनुरोधेनोक्तम् । ‘त्रिर्ने अश्विना यजत । हिरण्यशम्यं यजतो बृहन्तम्’ इत्यादिषु यजतशब्दो यष्टव्यपरतयैव वेदभाष्ये व्याख्यातः। ‘पर्वत पादपे पुसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले' इति मेदिनी । हर्यतोऽश्व इति ॥ एतदपि ‘हयै कान्तौ गतौ च' इति धात्वर्थ वृत्तिकारोक्तिञ्चानुसृत्योक्तम् । ‘परित्यं हर्यत हरिम् । आहर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् । पृषिराजि ॥ पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना' । अनयोश्च त्रिषु चेतबिन्दुयुक्तेऽप्युभाविमौ ।