पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६००
[उणादिषु
सिध्दान्तकौमुदीसहिता

१८१ । जोरी च । जीरोऽणु । ज्यश्चेत्येके ।

१८२ । सुसूधागृधिभ्यः क्रन् । सुरः । सूरः । धीरः । गृध्रः ।

१८३ । शुसिचिमीनां दीर्घश्च । शुः सैौत्रः शूरः । सीरम् । चीरम् । मीरः समुद्र

१८४ । वाविन्धेः । वीधै विमलम् ।

१८५ । वृधिवपेिभ्यां रन् । वधै चर्म । वप्रः प्राकारः ।

१८६ ॥ ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्रगौर वत्रेरामालाः । रन्नन्ता एकोनविंशतिः । निपातनाद्रणाभावः । ऋज्रो नायकः । इदि इन्द्रः। अङ्गेर्नलोपः । अग्रम्। ‘वज्रोऽस्त्री हीरके पौ' । डु वप् , उपधाया इत्वम् । विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुत्रं मुखम् । “क्षुर विलेखने' रेफलोपः । अगुणः । क्षुर । “खुर छेदने' रलोपो गुणाभावश्च । भन्देर्नलोपः भद्रम् । “उच्च समवाये' चस्य गः उग्रः । ब्रि भी


त्वा सुष्ठुतयः । य इम जजान । ’ वाहुलकादसंज्ञाछन्दसोरपि कचिदित्याशयेनोदाहरति । वान्तीत्यादि ॥ जोरी च ॥ 'जीरः खङ्गे वणिग्द्रव्ये' इति विश्व । 'जीरस्तु जरणे खङ्गे ? इति मेदिनी । ज्यश्चेति ॥ तथा च, ‘न धातुलोपे' इति सूत्रे ‘जीवेरदानु' इत्यस्य प्रत्याख्या नार्थ नैतज्जीवे रूप किन्तु राकि सम्प्रसारणमिति भाष्ये उक्तम् । सुसू ॥ 'सुरा चषक जय:मद्ययोः । पुलिङ्गत्रिदिवेशे स्यात्' इति मेदिनी । “सुरो देवे सुरा मद्ये चषकेऽपि सुरा कवित्' इति विश्वः । सुवति प्रेरयति कर्मणि लोकामिति सूरः । सूर्यः । “धीरो धैर्यान्विते स्वैरे बुधे कृीबन्तु कुङ्कमे । स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी । “गृध्र खगान्तरे पुसि वाच्यलिङ्गो ऽर्थलुब्धके' इति च । शुरिति तालव्यादिर्गत्यर्थः । ‘शूरः स्यात् यादवे भटे' इति मेदिनी । शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्रौ । 'शूर सूरश्च तरणौ' इति द्विरूपेषु विश्वः । 'सीरो ऽर्कहलयोः पुंसि । चीरी झिल्ल्या नपुसकम् । गोस्तने वस्रभेदे च रेखालेखनभेदयोः' इति मेदिनी । “चीरन्तु गोस्तने वत्रे चूडायां सीसकेऽपि च । चिरी कृच्छादिकाझिल्ल्योः ’ इति विश्वः । वाविन्धेः ॥ 'वीभ्रन्तु विमलार्थकम्' इति विशेष्यनित्रेष्वमरः । ‘वप्रः पितरि केदारे वप्रः प्राकाररोधसोः’ इति धरणिरन्तिदेवौ । 'वप्रस्ताते पुमानत्री वेणुक्षेत्रचये तटे' इति मेदिनी। ऋत्रेन्द्र ॥ 'ऋज गत्यादिषु' । “ऋज़ाश्वः प्रष्टिभिरम्बरीष' इति मन्त्रे ऋज़ा गतिमन्तोऽश्वा यस्य स ऋज्राश्व इति वेदभाष्यम् । 'इन्द्रः शचापतावन्तरात्मन्यादत्ययोगयोः' इति विश्वः । “अग्र पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी । “क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ । 'खुरः कोलदले शफे । भद्रः शिवे खञ्जरीटवृषमेरुकदम्बके । करिजातिविशेषे ना कीबं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्राकृष्णाव्योमनदीषु च । तिथिभेदे