पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीय: पाद:]
६०१
बालमनोरमा ।

भेरी । पक्षे ल: । भेलो जलतरणद्रव्यम् । शुचेश्वस्य कः, शुक्रः । पक्षे ल । शुक्रुः। गुङ् वृद्धिः । 'गौरोऽरुणे सिते पीते' ‘वन सम्भक्तौ' । वत्रो विभागी । इणो गुणाभावः । 'इरा मद्ये च वारिणि ' । “मा माने' माला ।

१८७ । समि कस उकन् । ‘कस गतौ' । सम्यक् कसन्ति पलायन्ते जना अस्मादिति सङ्कसुकः दुर्जनः, अस्थिरश्च ।

१८८ । पचि च । पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।

१८९ । भयः कुक्कन् । भीरुकः ।

१९० । क्वुन्शिल्पिसंज्ञयोरपूर्वस्यापि । रजकः । इक्षुकुट्टकः । चरकः । 'चष भक्षणे' । चषकः । शुनकः । भषकः ।

१९१ । रमे रश्च लो वा । रमको विलासी । लमकः ।

१९२ । जहाते च । जहकस्यागी कालश्च ।

१९३ । ध्टमा धम च । धमकः कर्मकारः ।


प्रसारिण्याङ्कट्फलानन्तयोरपि । त्रिषु श्रेष्ठ च साधौ च न पुसि करणान्तरे । उग्रः शूद्रासुते क्षत्राद्रुद्रे पुसि त्रिघूत्कटे । स्त्री वचाक्षुद्रयोः' इति मेदिनी । “भेदः लवे भीरुके च निर्बुद्धिमुनि भेदयोः' इति विश्व . । 'भेलः झवे मणौ पुसि भीरावज्ञे च वाच्यवत् । शुक्रः स्यात् भार्गवे ज्येष्ठ मासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्रीब शुको योगान्तरे सित । नपुसकन्तु रजते । गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्र न द्वयोः पद्मकेसरे । गौरी त्वसञ्जातरज.कन्याशङ्करभार्ययो. । 'रोचना रजनीपिङ्गाप्रियडुवसुधासु च । आपगाया विशेषेऽपि यादसां पतियोषिति' इति मेदिनी । “नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्व. । अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । सा गौरी तत्सुतेो यस्तु स गौरः परिकीर्तित. इति ब्रह्माण्डवचन श्राद्धकाण्डे हेमाद्रिणा उदाहृतम् । एतेन 'गौरः शुच्याचारः' इति भाष्य व्थाख्यातम् । 'इरा भूवाक्सुराप्सु च' इति मेदिनी । 'माल क्षेत्रे जने मालो माला पुपादि दामनि' इति मेदिनी । 'मालमुन्नतभूतलम्' इत्युत्पल. । “क्षेत्रमारुह्य मालम्' इति मेघदूतः । मणिपूर्वोऽयमर्थान्तरेऽपि रूढ. । 'मणिमाला स्मृता हारे स्त्रीणान्दन्तक्षतान्तरे' इति विश्व । बाहलकात् “तिज निशाने' रन् दीर्घत्वं जस्य व. । “तीत्रा तु कटुरोहिण्या राजिकागण्डदूर्वयोः । त्रिष्वत्युष्णे नितान्ते च कटौ' इति मेदिनी । समि कसः ॥ 'सङ्कसुकोऽस्थिर.' इति विशेष्यनिन्ने अमर.। क्वुन्।॥ अपूर्वस्य निरुपपदस्य अपिशब्दात्सोपपदस्य। अर्थद्वारकसम्बन्धे षष्ठी, प्रकृतिप्रत्ययार्थयो क्रियाकारकभावात् । ‘रजको धावके शुके' इति विश्व । 'रजकौ धावकशुकौ । इति हेमचन्द्रः । इक्षुकुट्टक इति ॥ ‘कुट्ट छेदने' । इक्षन् कुट्टयति इक्षुकुट्टको गौडिक . । 76