पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीय: पाद:]
५९९
बालमनोरमा ।


रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यान् । “पूर्वपदात् (सू ३६४३) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तन्न *३शासः वसि-' (सू २४१०) इति प्राप्तमपि न । उस्रो रश्मि । उस्रा गौः । वाश्रे दिवसः । वाश्र मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिघ्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुरुत्रम् उदश्रु ।

१७१ । चकेिरम्योरुचोपधायाः । चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।

१७२ । वौ कसेः । विकुस्रश्चन्द्रः ।

१७३ । अमितम्योदीर्वश्च । आम्रम् । ताम्रम् ।

१७४ । निन्देर्नलोपश्च । निद्रा ।

१७५ । अर्देदीर्घश्च । आद्रम् ।

१७६ । शुचेर्दश्च । शूद्रः ।

१७७ । दुरीणो लोपश्च । दुःखेनेयते प्राप्यत इति दूरम् ।

१७८ । कृतेश्च्छः क्रू च । कृच्छू कूरः ।

१७९ । रोदेर्णिलुक् च । रोदयतीति रुद्रः ।

१८० । बहुलमन्यत्रापि संज्ञाछन्दसोः । णिलुगित्येव । 'वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे


इति मेदिनी । 'दस्र खरे चाश्विनयोः' इति विश्वः । भूयोऽभिप्रायेति ॥ माधवस्तु वृत्तिस्वरसमनुरुछ “अविन्द उस्त्रिया' इति मन्त्रे बाहुलकात् षत्वं नेति व्याचष्टे । “उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः' इति मेदिनी । 'उस्रा गव्युपवित्रायामुस्रन्तु किरणे स्मृत इति विश्वः । “वाश्रेो ना दिवसे झीब मन्दिरे च चतुष्पथ' इति मेदिनी । ‘वाश्रो रासभपक्षि णो.' इत्येके । माधवस्तु “वाश्रेव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यत् । ‘शुभ्र स्यादभ्रके लीबमुद्दीप्रशुल्योत्रिषु' इति मेदिनी । चुक्रमिति ॥ 'चक तृप्तौ' । ‘चुक्रस्त्वम्लेऽम्लवेतसे । चुकी चाङ्गेरिकायां स्यात् वृक्षाम्ले चुक्रमिष्यते' इति विश्व. । ‘चुक्रे वृक्षाम्ले चाङ्गेय्यां स्त्री पुंस्यम्लेऽम्लवेतसे' इति मेदिनी । अर्दैदीर्घश्च ॥ “आद्र नक्षत्रभेदे स्यात् स्त्रियां छिन्नेऽभिधेयवत्' इति मेदिनी । शुचेर्दश्च ॥ शद्रो वृषलः । “अहहारे त्वा शूद्रा' इति श्रुतौ तु रूढेबधाद्योग एव पुरस्कृतः । तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितम् । 'शुगस्य तदनादरश्रवणात्' इति । कृतेः ॥ अन्यस्य च्छः । कू तु सर्वस्य । अनेकाल्त्वात् । ‘कृच्छमाख्यानमाभीले पापसान्तपनादिनोः' इति विश्वमेदिन्यौ । 'कूरस्तु कठिने घेरे नृशसे चाभिधेयवत्' इति च । बहुलमन्यत्रापि संज्ञा ॥ बृहयति वर्धयति प्रजाः ब्रह्मा । शं सुखं भावयति शम्भुः । शोषयति शुष्मेत्यादि । छन्दसि, “वर्धन्तु