पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५९३
बालमनोरमा ।

गमनम् । धर्मः । क्षेमं कुशलम् । क्षेोमम् । प्रज्ञाद्यणि क्षेौमश्च । भामः आदित्य । यामः । ‘वाम शोभनदुष्टयोः'। पद्मम्। यक्ष पूजायाम्। य६मा रोगराजः । नेम:।

१३८ । जहातेः सन्वदालोपश्च । 'जिह्मः कुटिलमन्दयोः' ।

१३९ । अवतेष्टिलोपश्च । मन्प्रत्ययस्यायं टिलोपो न प्रकृते । अन्यथा डिदित्येव ब्रूयात् । 'ज्वरत्वर-' (सू २६५४) इति ऊठौ । तयोदधे कृते गुण: । चादिपाठाद्व्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादपाठादव्ययत्वम् । अवतात अाम् ।

१४० । ग्रसेरा च । ग्रामः ।

१४१ ॥ अविसिविसिशुषिभ्यः कित् । ऊमं नगरम् । स्यूमो रश्मि । सिमः सर्वः । शुष्ममग्निसमीरयोः' ।

१४२ । इषियुधीन्धिदसिश्याधूसभ्यो मक् । 'इष्मः कामवसन्तयोः ।


क्रतौ । अहिंसोपनिषन्नयाये ना धनुर्यमसोमपे' इति च । “धमः पुण्य यम न्याय स्वभावा चारयोः क्रतौ' इति विश्व. । ‘क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके । शणजेऽतसिजे इति मेदिनी । “भामः क्रोधे रवा दीप्तौ । यामस्तु पुसि प्रहरे सयमेऽपि प्रकीर्तितः । वाम धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु नायौ स्त्रियामथ । वामी श्रृंगाली बडबारासभीकरभीषु चव । पद्मोऽत्री पद्मके व्यूहनिधिसख्यान्तरेऽम्बुजे । ना नागे' इति च मेदिनी । यक्ष पूजायामिति ॥ यत्तूज्वलदत्तेन ‘जक्ष भक्ष हसनयो.' इत्युपन्यस्तम्, तन्न , तस्य चवर्गतृतीयादित्वात् । न च लक्ष्यमपि तथैवेति भ्रमितव्यम् । “आक्षिभ्यान्ते नासिका भ्याम्” इति मन्त्रे यक्ष्मशब्दस्यान्तस्थादित्वनिर्णयात् । न च तदुपन्यस्तधातुरप्यन्त स्थादि रिति भ्रमितव्यम् । “जक्षत् क्रीडन् रममाण.' इत्यादिप्रयोगेण तथा कविकल्पद्रुमादिभिः सह। विरोधादिति दिक् । मनिन्प्रत्यये तु नान्तः । “राजयक्ष्मेव रोगाणाम्' इति माघ. । “यक्ष्म णापि परिहाणिराययौ' इति रघु. । दशपादीवृत्तौ तु इह सूत्रे पक्षीति पवर्गायिादि पठित्वा सौत्रो धातुः बाहुळकान्नकारस्य नेत्सज्ञा इत्युका अक्षिपक्ष्मेत्युदाहृतम् । तन्न । “पक्ष परिग्रहे इत्यस्मान्मनिना गतार्थत्वात् । 'नेमः क्रुीबेऽवधौ गतें प्राकारे कैतवेऽपि च' इति मेदिनी । नेमस्त्वधे प्राकारगर्तयोः । अवधौ कैतवे च' इति हेमचन्द्रः । जहाते ॥ “जिह्मस्तु कुटिले मन्दे कीबन्तगरपादपे' इति मेदिनी । अवते ॥ “ओ प्रश्रेऽङ्गीकृतौ रोषे' इति विश्व । ग्रसेरा च ॥ 'ग्रसु अदने' । अतो मन् । धातोराकारश्च । 'ग्रामः स्वरे सवसथे बृन्दे शब्दादिपूर्वके' इति विश्व. । शब्दादिपूर्वको प्रामशब्दो बृन्दे । शब्दग्रामो गुणप्राम इति यथा । संपूर्वोऽय युद्धे । तदुक्तम् । 'संपूर्वः संयुगे स्मृतः' इति । ऊमं नगरमिति ॥ ‘त्वे क्रतुम् इति मन्त्रे ‘ऊमास्तर्पका यजमानः’ इति वेदभाष्यम्। स्यूमो रश्मिरिति ॥ सूत्रतन्तुरित्यन्ये। शुष्मं तेजसि सूर्ये ना' इति मेदिनी । ‘शुष्मं बलम्' इति वेदभाष्ये । इषियुधि ॥ 5