पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९२
[उणाद्य
सिध्दान्तकौमुदीसहिता


१२३ । शृणातेर्हस्वश्च । शृङ्गम् ।

१२४ । गण्शकुनौ । नुट् चेत्यनुवर्तते । शाङ्गः ।

१२५ । मुदिोर्गग्गौ । मुः । गर्ग ।

१२६ । अण्डन्कृस्पृभृष्टञ्जः । करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।

१२७ । शूदृभसोऽदिः । शरत् । “दरदृदयकूलयोः' । भसज्जघनम् ।

१२८ । द्वणातः पुग्घ्रस्वश्च । ऋषत् ।

१२९ । त्यजितनियजिभ्यो डत् । यद । तद् । यद् । सर्वादयः ।

१३० । एतेस्तुट् च । एतद् ।

१३१ । सर्तेरटिः । “सरट् स्याद्वातमेघयोः’ । वेदभाष्ये तु * याभि कृशानुम्' इति मन्त्रे “सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् ।

१३२ । लङ्गेर्नलोपश्च । लघट् वायुः ।

१३३ । पारयतेरजिः । पारक् सुवर्णम् ।

१३४ । प्रथः कित्सम्प्रसारणञ्च । पृथक् । स्वरादिपाठाद्व्ययत्वम् ।

१३५ । भियः घुग्घ्रस्वश्च । भिषक् ।

१३६ । युष्यसिभ्यां मदिक् । 'युष्’ सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।

१३७ । आर्तिस्तुसुहुसृधुक्षिक्षुभायावापादयक्षिनीभ्यो मन् । एभ्यश्चतु र्दशभ्यो मन् । अर्मश्चक्षरो । स्तोमः सङ्गतः । सोमः । होमः । सर्मो


खर्णमीनभेदयो ऋषभौषधौ' इति मेदिनी । “ श्रृङ्ग विषाणमाख्यात शैलाग्रे जलयन्त्रके । मीनौषधिसुवर्णानां भदे श्रृङ्गी प्रयुज्यते ।' इति उत्पलिनीकोशः। अण्डन् कृस् ॥ 'करण्डी मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी । 'वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः इति विश्वमेदिन्यौ । बाहुलकात् तरतेः । “तरण्डो बडिशीसूत्रबद्धकाष्ठादिके वे' इति मेदिनी । शूदृ ॥ “शरत् स्त्री वत्सरेऽप्यूतौ । दरत् स्त्रिया प्रपाते च भयपर्वतयोरपि । भसत् स्त्री भास्वरे योनौ ' इति च मेदिनी । “उवे अम्बसुलाभिके” इति मन्त्रस्य व्याख्यायां भसद्रग इति वेदभाष्यम् । “जाघन्या पत्रीः सयाजयन्ति भसद्वीर्या हि स्त्रियः” इत्यत्र भसज्जघनमिति व्याख्यातारः । दृणातेः ॥ “दृषन्निष्पेषणशिलापदप्रस्तरयोः स्त्रियाम् इति मेदिनी । अर्तिस्तु ॥ 'सोमस्तुहिनदीधितौ । वानरे च कुबेरे च पितृदेवे समीरणे । वसुप्रभेदे करे नीरे सोमलतौषधौ' इति मेदिनी । “धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः