पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५९१
बालमनोरमा ।

११६ पतङ्ग

११७ । तरत्यादिभ्यश्च । तरङ्गः । लवङ्गम् ।

११८ । बिडादिभ्यः कित् । बिडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च।

११९ । सृष्टोद्विश्च । सारङ्गः । वारङ्गः खङ्गादिमुष्टिः ।

१२० । गन्गम्यद्योः । गङ्गा । अद्भः पुरोडाश ।

१२१ । छापूखडिभ्यः कित् । छागः । पूगः । खङ्गः । बाहुलकात् 'षिड अनादरे' गन्सत्वाभावश्च । षिङ्गस्तरलः । “षिङ्गेरगद्यत ससम्भ्रममेवमेका इति माघ ।

१२२ । धृञ्जः किन्नुट् च । भृञ्पा गान्कित्स्यात्तस्य नुट् च । “भृङ्गाः


विशाला त्विन्द्रवारुण्यामुज्जयिन्यान्तु योषिति । नृपवृक्षभिदोः पुसि पृथुलेऽप्यभिधेयवत् । बिडालो नेत्रपिण्डे स्यात् पृषदशुकके पुमान् । मृणालं नलदे कीबं पुन्नपुसकयोर्बिसे । कुलालः ककुभे कुम्भकारे स्त्री त्वञ्जनान्तरे । कपालोऽत्री शिरोऽस् िस्याद्धटादेः शकले व्रजे । पाञ्चाली पुत्रिकारीत्योः स्त्रियां पुम्भून्नि नीवृति' इति मेदिनी । बाहुलकात् इयतेरपि । शाला । ‘शल चलने अस्माद्धति “छायाशालानिशानाम्' इति निपातनात् स्त्रीत्वमिति न्यासकार । बोपदेवस्तु शालङ्कत्थने' इति पपाठ । “शाला दुस्कन्धशाखायाङ्कहे गेहेकदेशयोः । ना झषे ' इति मेदिनी । पतेः ॥ पतेर्वाहुलकादर्थान्तरेऽपि । 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्रीब सूते' इति मेदिनी । सूते पारदे इत्यर्थः । तरत्यादिभ्य ॥ “तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः । बिडङ्ग इति ॥ “बिड आक्रोशे ' । “बिलङ्गः कृमिसङ्कन्ने बिडङ्गो नागरऽन्यवत्' इति विश्वः । “बिडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिन्ने पुनपुसकम्' इति मेदिनी । मृदङ्ग इति ॥ “मृद क्षेोदे । ‘मृदङ्गः पटहे घोषे' इति मेदिनी । कुरङ्ग इति ॥ 'कृ विक्षेपे' बाहुलकादुत्वम् । कुर शब्दे इति वा अस्तु । “सारङ्गः पुसि हरिणे चातके च मतङ्गजे । शबले त्रिषु' इति मेदिनी । बाहुलकात् 'नृ नये' । 'अथ नारङ्गः पिप्पलीरसः । यमजप्राणिनिकटे नागरङ्गदुमेऽपि च इति मेदिनी । गन् गम्यद्योः ॥ बाहुलकादमेरपि । “अङ्ग गात्र उपाये च प्रतीके चाप्रधानके । अङ्गो देशविशेषे स्यादङ्ग सम्बोधनेऽव्ययम्' इति विश्व । “ अङ्गं गात्रे प्रतीकोपाययेोः पुंभून्नि नीवृति । लौबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' इति मेदिनी । छापू ॥ छायते छिद्यते यज्ञार्थमिति छागः । पूयते मुखमनेन । ‘पूगस्तु कमुके बृन्दे’ इति मेदिनी । ‘खड भेदन' । खङ्गो गण्डकश्श्रृङ्गे स्यात् नित्रिंशे गण्डकेऽपि च' इति शब्दतरङ्गिणी । ‘खङ्गो गण्डकश्श्रृङ्गेऽसिबुद्धभेदेषु गण्डके' इति मेदिनी । भृञ्जः ॥ किद्रहण स्पष्टार्थम्, अनुवृत्त्यैव लाभात् । 'भृङ्गो धूम्याटषिङ्गयोः । मधुत्रत भृङ्गराजे पुसि भृङ्गडुडत्वचि' इति मेदिनी । 'श्रृङ्गं प्रभुत्वे शिखरे चिहे क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ श्रृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां