पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८८
[उणाद्य
सिध्दान्तकौमुदीसहिता


१०० । कमेरठः । कमठ । 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम् इति मेदिनी । बाहुलकाज्जरठः ।

१०१ । रमेििद्धश्च । रामठं हिङ्गु ।

१०२ । शमेः खः । शङ्खः ।

१०३ | कणेष्ठः । कण्ठः ।

१०४ । कलस्तृपश्च । तृपतेः कलप्रत्ययः । चात्तृफतेः । तृपला लता । 'तृफला तु फलत्रिके' ।

१०५ । शपेर्वश्च । शबल ।

१०६ । ऋपादिभ्यश्चित् । वृषलः । पललम् । बाहुलकादुणः । सरलः । तरलः । 'कमेबुक् (च)' (गण १९६) कम्बल । 'मुस खण्डन ' मुसलम् । 'लङ्गवृद्धिश्च '(गण १९७) लाङ्गलम् । 'कुटिकाशिकौतिभ्यः प्रत्ययस्य मुट् ।


मेदिनी । जरठ इति ॥ तृप् वयोहानौ । 'जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यौ । ‘जरठ: कठिने जीर्णे' इति वैजयन्ती । शमेः ख ॥ 'शङ्खो निधौ ललाटास्ि कम्बा न स्त्र ' इत्यमर । “शङ्खः कम्बैौ न योषिन्ना भालास् िनिधिभिन्नखे' इति मेदिनी । कणेष्टः ॥ “कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमेदिन्यौ । फल त्रिके इति ॥ “त्रिफला तृफला च सा' इति विश्वः । त्रिफलाशब्दसमानार्थस्तृफला शब्द इति ‘द्विगोः' इति सूत्रे रक्षितः । 'शप आक्रोशे' । वृषादिभ्यश्चित् ॥ 'शूद्राः श्रावरवणांश्च वृषलाश्च जघन्यजा' ' इत्यमरः । “वृषलस्तुरगे शूद्रे' इति हेमचन्द्र । पललमिति ॥ पल गतौ । “पलल तिलचूर्णे च पङ्के मांसे नपुसकम् । ना राक्षसे इति मेदिनी । 'सरलः पूतिकाष्ठ नाऽथोदारावक्रयोत्रिषु' इति मेदिनी । 'सरला विरलायन्ते घनायन्ते कलिदुमा न शमी न च पुन्नागा अि स्मन्ससारकानने ' इत्यभियुक्तप्रयोग कमेरिति ॥ बाहुलकादित्यत्रानुषज्यते । “कम्बवळा नागराजे स्यात् सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुसकम्' इति मेदिनी । 'मुसल स्यादयोऽग्रे च पुंनपुसकयोः त्रियाम् । तालमूल्यामाखुपणगृिहगोधिकयोरपि' इति मेदिन्याम् । मूर्धन्यमध्योऽप्यमिति वर्णदेशना, ‘मुस खण्डने' इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवात्रेयादिभिः पठित त्वात् । उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः । अत एव मुसलोऽपि चेति विश्वकोशे मुशलोऽपि चेति पाठान्तरम् । लङ्गेरिति ॥ बाहुळकादित्येव । एवमप्रेऽपि । “लाङ्गल तालहलयोः पुष्पभिद्रहदारुणोः । लाङ्गली गृहपिप्पल्याम्' इति हेमचन्द्रः । “लाङ्गली तोय पिप्पल्या कीबन्तु कुसुमान्तरे । गोदारणे तृणे राजगृहदारुविशेषयोः' इति मेदिनी । 'कुड्मलो मुकुल पुस न द्वयोर्नरकान्तरे । ‘कोमल मृदुले जले' इति च । बाहुलकादन्यत्राप । तथा कुस श्रेलषणे' । दन्यान्तो निर्विवादः । वोपदेवमते तालव्यान्तोऽपि । गुणः । कोसलः कोशलो