पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उणाद्यः]
५८७
बालमनोरमा ।


बाहुलकाद्रस्वोऽपि । जम्बुः । कर्फ लाति कफेलूः श्लेष्मातकः । निपातना देत्वम् । कर्क दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्य स्यति त्यजतीति द्विधिपूः पुनर्भूः । केचित्तु “अन्दूट्टम्भूजम्बूकम्बू' इति पठन्ति । छटम्फ उन्छेशे ' दृम्फूः सपजाति । * कमेबुक्' । कम्बूः परद्रव्यापहारी ।

९४ । मृग्रेोरुतिः । मरुत् । गरुत्पक्षः ।

९५ । ग्रो मुट् च । गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्ण तृणविशेषश्च ।

९६ । हृषेरुलच । “हर्षलो मृगकामिनोः' । बाहुलकाचटतेः । चटुलं

९७ । हृष्टरुहियुषिभ्य इतिः। 'हरित्ककुभि वर्णे च तृणवाजिविशेषयोः'। सरिन्नदी । 'रोहित्' मृगविशेषस्य स्री । * युष' इति सँौत्रो धातुः । ‘ऋश्यस्य रोहित् पुरुषस्य योषित्' इति भाष्यम् ।

९८ । ताडेर्णिलुक् च । ताडयतीति तडित् ।

९९ । शमेर्हः । बाहुलकादित्संज्ञा एयादेशः इट् च न । “शण्ढः स्यात्पुंसि गोपतौ' । शण्ढः । लाब ।


वर्षाभूवदूपमस्येत्याहु । ह्रस्वोऽपीति ॥ उदाहृतञ्च विक्रमादित्येन । 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति । यत्तु “परिणतजम्बुफलोपभोगहृष्टा” इति भारविप्रयोग हस्वान्तत्वे साधकत्वेनोदाजहु. । तन्न । 'इको हस्वोऽडय.' इति सूत्रेण गतार्थत्वात् । दिधिमिति ॥ केचित्तु दधातेरित्वन्द्वित्व घुक् च निपात्यते । दधात्यसौ दिधिघूरित्याहुः । उज्ज्वलदत्तोक्त पाठमाह । केचित्विति ॥ एतच कैयटमाधवादिमहाग्रन्थविरुद्धमित्यवधेयम् । अत एव दृम्भू स्री सर्पचक्रयोः' इति भान्ते मेदिनी । मरुदिति ॥ प्रज्ञादित्वादणि मारुतोऽपि । मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति । तथा च विक्रमादित्यकोशः । “मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति ससारावर्तश्च । “कोऽयं वाति स दाक्षिणात्यमरुतः’ इति कविराजः । अत्रानुपपत्ति मत्वा दाक्षिणात्यपवन इति पाठं कल्पयन्त्यल्पदृश्वानः इति वर्णविवेकः । गरु दिति ॥ यवादिरयम् । तेन मतुपो वत्व न । गरुत्मान् । ओी मुट् च ॥ 'गर्मुत् त्री स्वर्ण लतयोः' इति मेदिनी । विश्वकोशमाह । हरिदिति ॥ 'हरिद्दिशि स्त्रिया पुसि ह्यवर्णविशेषयोः। अस्त्रियां स्यात्तृणे च' इति मेदिनी । ऋश्यस्येति ॥ एतेन “गतं रोहिद्भतां रिमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः । “रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी । शमेढेः ॥ बाहुलकादिति ॥ यद्यपि *नेड़शिकृति' इति इण्निषेधः सुवच । तथापि नेङ्करमनादाविति परिगणनादेवमुक्तम् । 'शण्ढः स्यात्पुसि गोपतौ' आकृष्टाङ्गे वर्षवरे तृतीय प्रकृतावपि' इति मेदिनी । कमठ इति ॥ “कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति