पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८४
[उणाद्य
सिध्दान्तकौमुदीसहिता


६३ । भातेर्डवतुः । भातीति भवान् ।

६४ । कठिचकिभ्यामोरन् । कठोरः । चकोरः ।

६५ । किशोरादयश्च । किंपूर्वस्य श्रृणातेष्टिलोपः । किमोऽन्यलोपः । किशोरोऽश्वशाबः । सहोरः साधुः ।

६६ । कपिगडिगाण्डिकटिपटिभ्य ओलच । कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलैौ गुडकपर्यायौ । कटोलः कटुः । पटोल ।

६७ । मीनातेरूरन्। मयूरः।

६८ । स्यन्देः सम्प्रसारणञ्च । सिन्दूरम् ।

६९ । सितानिगमिमसिसच्यविधाञ्कृशिभ्यस्तुन् । सिनोतीति सेतु । तितुत्र-' (३१६३) इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धचदिः । 'ज्वर त्वर-' (सू २६५४) इत्यूट् । तत्र क्ङिती त्यनुवर्तत इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः । ऋकाष्टा ।

७० । प: किञ्च । पिबतीति 'पितुर्वेह्रौ दिवाकरे' ।

७१ । अर्तश्च तुः । अर्तेस्तुः स्यात्स च कित् 'ऋतुः स्त्रीपुष्पकालयोः ।


इति ॥ * कपोतः स्याचित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी । “कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः । अत्रौतचश्चित्व प्रामादिकम् । 'यत्कपोतः पदमझा कृणोति । देवाः कपोत इषितो यदिच्छन्’ इत्यादौ सर्वत्र प्रत्ययस्वरेण मछद्योदात्तस्यैव पठ्यमानत्वात् । कठोर इति ॥ कठिनः पूर्णश्च । 'कठोरताराधिपलाञ्छनच्छविः’ इति माघः। किशोर इति ॥ 'किशोरोऽश्वस्य शाबके । तैलपण्यैषधौ च स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी । कपोल इति ॥ कटे वर्षावरणयोः । केचित्तु सूत्रे कडि मदे इत्येतं पठन्ति । कण्डोलः पिटकः, चण्डालश्च । ‘चण्डालिका तु कण्डोलवीणाचवण्डालवल्लकी' इत्यमरः । पटोल इति ॥ 'पटोलं वस्रभेदे नौषधौ ज्यौत्स्न्यान्तु योषिति' इति मेदिनी । ‘कल शब्दे ।' बाहुळकादतोऽप्योलच् । 'कल्लोल पुसि हर्षे स्यान्महत्सू र्मिषु वारिणः’ इति मेदिनी । स्यन्देः ॥ 'सिन्दूरस्तरुभेदे स्यात् सिन्दूर रक्तचूर्णके । सिन्दूरी रोचनारक्तवेलिकाधातकीषु च' इति मेदिनीविश्वप्रकाशौ । सितनि ॥ 'सेतुर्नालौ कुमारके' इति मेदिनी । 'सेतुरालौ त्रियां पुमान्' इति, “मण्डन्दधिभव मस्तु' इति चामरः । धातुर्नेन्द्रियेषु च । शब्दयोनिमहाभूततदुणेषु रसादिषु । मनःशिलादौ श्लेष्मादौ विशेषाद्वै रिकेऽस् िच' इति मेदिनी । 'श्लेष्मादिरसरक्तादिमहाभूतानि तदुणाः । इन्द्रियाण्यश्मविकृति शब्दयोनिश्च धातवः' इत्यमरः । अर्तश्च तुः ॥ तुनि प्रकृते अन्तोदात्तत्वार्थन्तुः क्रियते । ऋतुना यज्ञम् । य ऋतुर्जनानाम्' इत्यादि । ‘ऋतुर्वर्षादिषट्सु च । आर्तवे मासि च पुमान्’ इति