पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उणाद्यः]
५८५
बालमनोरमा ।


७२ । कमिनिजनिगाभायाहेिभ्यश्च । एभ्यस्तुः स्यात् । ‘कन्तुः कन्दर्प चित्तयोः' । मन्तुरपराधः । जन्तुः प्राणी । 'गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च ' । भातुरादित्यः । 'यातुरध्वगकालयोः' । रक्षसि कृीबम । हेतु

७३ । चायः किः । “केतुर्मुहपताकयोः' ।

७४ । आमोतेर्हस्वश्च । अप्तुः शरीरम् ।

७५ । वसस्तुन् । वस्तु ।

७६ । अगार णिच । “वेश्मभूर्वास्तुरस्त्रियाम्' ।

७७ । कृञ्जः कृतुः । क्रतुर्यज्ञः ।

७८ । एाधवत्याश्चतुः । एधतुः पुरुषः । वहतुरनङ्कान् ।

७९ । जीवेरातुः । * जीवातुरस्त्रियां भत्ते जीविते जीवनौषधे ' ।

८० । आतृकन्दृद्धिश्च । जीवेरित्येव । 'जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषावल ' ।

८१ । कृषिचमितनिधानसर्जिरवार्जभ्य ऊः । “कषैः पुंसि करीषाम्रौ कर्पर्नद्यां स्त्रियां मता' । चमूः । तनूः । धनूः शस्रम् । “सर्ज सर्जने' । सर्जु र्वणिक् । 'खर्ज व्यथने' । खर्जुः पामा ।

८२ । मृजेर्गुणश्च । मर्जुः शुद्धिकृत् ।

८३ । वहो धश्च । “वधूर्जायास्नुषास्रीषु' ।


मेदिनी। कमि। कमिग्रहण प्रपञ्चार्थम् । ‘अर्जिदृशि' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् । मन्तु रिति ॥ ‘मन्तुः पुस्यपराधेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी। ‘दीर्घ ह्यहुशम्’इति मन्त्रस्य वेदभाष्ये तु मन्तुभ इति मन्तुज्ञांनन्तद्वान् हे इन्द्रेति व्याख्यातम् । “गातुन कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे' इति मेदिनी । “भातुन किरणे सूर्ये' इति च । चायः किः ॥ ' केतुन रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि' इति मेदिनी । अप्तुः शरीरमिति ॥ अभिलषितार्थश्च , आप्तव्यत्वात् । अत एव आप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः । कृञ्जः क्रतुः ॥ क्रतुर्यज्ञे मुनौ पुसि' इति मेदिनी । एधिवह्योश्चतुः ॥ वित्वादन्तोदात्त । “स्योन पत्यं वहतु कृणुष्व'। ‘वहतुः पथिके वृषभे पुमान्’ इति मेदिनी । आातृकन् ॥ “जैवातृक पुमान्सोमे कृषका युष्मतोत्रिषु' इति मेदिनी । कृषि ॥ रभसकोशस्थमाह । कषैरिति ॥ ‘कर्षः पुमान् करीषाम्रौ स्त्रियां कुल्याल्पखातयोः' इति मेदिनी । “सर्जुर्वणिजि विद्युति । त्रियां स्वर्गे विधौ रुद्रे' इति, “खर्जुः कीटान्तरे स्मृता । खजूरी पादपे कण्ड्राम्’ इति च । मृजेः ॥ मर्जुः स्त्री शुद्धौ धावकेऽपि च इति मेदिनी । वहः ॥ ‘वधूः स्नुषा नवोढा स्त्री भार्यापृकाङ्गनासु च' इति विश्वः। ‘पृका च महिला 74