पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५८३
बालमनोरमा ।

तिष्ठतेर्युक्हस्वत्वञ्च । स्थविरः । खदिरः । बाहुलकाच्छीडो बुक्हस्वत्वञ्च । शिबिरम् ।

५४ । सलिकल्यनिमभिडिभण्डिशण्डिपिाण्डितुण्डिकुकिभूभ्य इलच् । सलति गच्छति निन्नमिति सलिलम् । कलिलः । अनिलः । महिळा । पृषो दरादित्वान्महेळापि । भड इति सौत्रो धातुः । ‘भडिलौ शूरसेवकौ' । भण्डिलो दूतः कल्याणञ्च । शण्डिलो मुनिः । पिण्डिलो गणक । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुळकात्कुटिलः ।

५५ । कमेः पश्च । कपिलः ।

५६ । गुपादिभ्यः केित् । गुपिलो राजा । तिजिलो निशाकरः । गुहिलं

५७ । मिथिलादयश्च । मथ्यन्तेऽत्र रिपवो मिथिला नगरी। पथिलः-पथिकः।

५८ । पतिकठिकुठिगडिगुडिदंशिभ्य एरक् । पतेरः पक्षी गन्ता च । कठेरः कृच्छूजीवी । कुठेरः पर्णाशः । बाहुळकान्नुन्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।

५९ । कुम्बंनेलोपश्च । कुबेर ।

६० । शदेस्त च । शतेरः शत्रुः ।

६१ । मूलेरादयः । एरगन्ता निपात्यन्ते। मूलेरो जटा । गुधेरो गोप्ता । गुहरा लाह्वघातकः । मुहरा मूखः ।

६२ । कबेरोतः पश्च । कपोतः पक्षी ।


त्रिषु । खदिरः शाकभेदे स्यात् ना चन्द्रे दन्तधावने ' इति मेदिनी । शिबिरमिति ॥ शेरतेऽस्मिन् राजान । 'निवेशः शिाबिर षण्डम्' इत्यमरः । सलिकलि ॥ कलिल इति ॥ मिश्रेो गहनश्च । महिळेति ॥ 'महिळा फलिनीत्रियोः' इति मेदिनी । पृषोदरेति ॥ तथाच दमयन्तीकाव्ये, ‘परमहेलारतोऽप्यपारदारिकः’ इति । परस्य महेला स्त्री । अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यथे । कापल इत ॥ “कपिला रेणुकायाश्च शिंशपागोविशे षयोः । पुण्डरीकः करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नानले वासुदेवे च कुक्कुरे' इति मेदिनी । रेणुकेह लताविशेषः । 'हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी' इत्यमरात् । मिथिलादयश्च ॥ मथे विलोडन । अकारस्येत्वं निपातनात् । कुठेर इति ॥ कठ कृच्छूजीवने । कुठि च । द्वितीयस्य इदित्वान्नुमि प्राप्त आह । बाहुलकादिति ॥ कबेरोतः ॥ गुपादिसूत्रादारभ्य एतदन्तानि सप्त सूत्राणि केषाञ्चिदसम्मतानि । कपोत