पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८२
[उणाद्य
सिध्दान्तकौमुदीसहिता

४८ । तवांणेद्वा | 'तव' इति सौत्रो धातुः । “ तविषताविषावब्धौ स्वर्गे च' । स्त्रियां तविषी-ताविषी नदी देवकन्या भूमिश्च । “तविषी बलम्' इति वेद्भाष्यम्

४९ । नावेि व्यथेः । ‘अव्यथिषोऽब्धिसूर्ययोः' । अव्यथिषी धरात्र्यो । । किलेबेक्च । किल्बिषम् ।

५१। इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचि रुधिबन्धिशुषिभ्यः किरच । इषिरोऽन्निः । मदिरा सुरा । ‘मुद्रिः कामुका भ्रयोः' इति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । : छिद्रोिऽसिकुठारयोः' । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः । 'चन्द्रौि चन्द्रहस्तिनौ' । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः । “मुहिर काम्यसभ्ययोः' । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । *शुष शोषणे' शुषिरं छिद्रम् । शुष्कमित्यन्ये ।

५२ । अशेर्णित् । आशिरो वह्निरक्षसो ।

५३ । अजिरशिशिरशिथिलास्थिरस्फिरस्थविरखादिराः । अजेवीभावा भावः । अजिरमङ्गणम् । शशेरुपधाया इत्वम् । “शिशिरं स्यादृतोभेदे तुषारे शीतलेऽन्यवत्' । 'श्रथ मोचने ' उपधाया इत्व रफलाप । प्रत्ययरेफस्य लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् ।


वेदभाष्यमिति ॥ ‘इन्द्रो मित्रस्य तविषीम् । इन्द्रस्यात्र तविषीभ्यः' इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौ, ‘ओजः पाज.’ इत्यादिषु बलनामसु तविषीशब्दस्य पाठश्चेह मूलमिति बोध्यम् । तविषः शोभनाकारे भेळेऽब्धिव्यवसाययोः । तविषी देवकन्याया पुसि स्वर्गे महोदधौ । तविषी चेन्द्रकन्याया ना खर्गाम्बुधिकाञ्चने' इति मेदिनी । किलेर्बुक् च ॥ * किल चैत्यक्रीडनयो ' । किल्बिष पापरोगयोः । अपराधेऽपि' इति मेदिनी । इषिरोऽग्निरिति ॥ आहार इत्यन्ये । छिदिरः पावके रजौ करवाले परश्वधे । मन्दिर नगरेऽगारे कृीब ना मकरालये । चन्दिरोऽनेकपे चन्द्रे । तिमिरन्ध्वान्तनेत्रामयान्तरे । मिहिरः सूर्यबुधयोः । मुहिरः काममूर्खयोः । रुधिरोऽङ्गारके पुंसि कीबन्तु कुडुमासृजोः । शुषिरं वंश्यादिवाद्ये विवरे च नपुसकम् । मूषिके न स्त्रिया नील्योषधौ रन्भ्रान्विते त्रिषु । आशिरो वीतिहोत्रे स्यात् राक्षसे भास्करे पुमान्’ इति मेदिनी । अजिरमङ्गणमिति ॥ अङ्गेल्र्युटि अनादेशस्य बाहुलकाण्णत्वमित्येके । अन्ये तु विश्वकोशा द्युपष्टम्भेन दन्त्यमेवेच्छन्ति । इह दशपादीवृत्तौ नञ्पूर्वस्य जीर्यतेः ऋवर्णलोपो निपात्यते इत्युक्तन्तदपि ग्राह्यम् । ‘आशुन्दूतमजिरं प्रत्न्नमीड्यम्’ इत्यादौ न जीर्यतीत्यजिरः इत्यर्थस्यानु गुणत्वात् । 'अजिरं प्राङ्गणे कार्यविषये दर्दूरेऽनिले । शिशिरो ना हिमे न स्त्री वृतुभेदे जडे