पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उणाद्यः]
५८१
बालमनोरमा ।


४० । मुकुरददुरौ । मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । “दृ विदारणे' धातोद्विर्वचनमभ्यासस्य रुक्टिलोपश्च । “ दर्दूरस्तोयदे भेके वाद्यभाण्डाद्रि भेदयोः' । “ दर्दूरा चण्डिकायां स्याद्रामजाले च दर्दूरम्' इति विश्व ।

४१ । मदुरादयश्च । उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मदुरो मत्स्य भेदः । “कबृ वर्णे' । रुगागमः । 'कर्बुरं श्वेतरक्षसो ' । बभ्रातेः खर्जुरा दित्वादूरोऽपि । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोत्रिषु' इति रन्तिदेवः । 'कोकतेर्वा कुक् (च) (गण १९५) कुकुरः-कुकुरः ।

४२ । असरुरन् । असुरः । प्रज्ञाद्यण् । आसुर ।

४३ । मसेश्च । पञ्चमे पादे “मसेरूरन्' इति वक्ष्यते । 'मसूरा मसुरा ब्रीहेिप्रभेदे पण्ययोषिति ' । “मसूरा मसुरा वा ना वेश्यात्रीहिप्रभेद्योः ' । मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ' । 'मसूरमसुरौ च द्वौ ' इति विश्व ।

४४ । शावशेराप्तौ । शु इत्याश्चर्थे । श्वशुरः । 'पतिपत्रयोः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः ।

४५ । अविमह्योष्टिषच । अविषः । महिषः । ४६ । अमेदवश्च । 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' । ४७ । रुहेर्तृद्धिश्च | 'रहुशम्बररााहषाः । ‘राहषा ऋगभद् स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः ।


सूत्रे व्यथेरुपसङ्खयानस्याप्रसिद्धत्वात् । तस्मादिह धः किचेति दशपादीपाठ पुरस्कुर्वन्तः प्रसादकारादयोऽप्युपेक्ष्याः । कथ तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् । धुरो विगत इति प्रादिसमासेनेनत्यवधेहि । ‘समासान्ताः’ इति सूत्रे वृत्तिपदमञ्जयस्तथैवोक्तत्वात् । मुकुर इति ॥ 'मकि मण्डने' । अस्मादुरच् नलोपश्च । बाहुळकादिति ॥ धातोरुपधायाः पक्षे उकार इति भावः । 'मुकुरो मकुरोऽपि च' इति विश्वः । 'मुकुरः स्यान्मकुरवत् दपण वकुळद्रमे । कुलालदण्डे' इति मेदिनी च । धातोरिति । केचित्तु गुणो दुगागमश्च निपात्यते इत्याहुः । कर्बुरामिति ॥ ‘कर्बुर सलिले हेन्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्ताया शबले पुनरन्यवत्' इति मेदिनी । आविष इति ॥ राजा समुद्रश्च । महिषो महान् । 'तुरीयन्धाम महिषो विवक्ति । उत माता महिषमन्ववेनत् ।’ टित्वात् डीप् । महिषी राजपत्री । रुहेः ॥ 'रौहिषो मृगभेदे स्याद्रौहिषञ्च तृण मतम्’ इति संसारावर्तः ।