३६। खरु शङ्कुपीयुनीलंगुलिगु । पचैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूखोंऽश्वश्च । 'शङ्कन कील शल्ययोः' । “पिबतेरीत्वं युगागमश्च ' । पीयुर्वायसः कालः सुवर्णश्च । निपूर्वालगि गतावस्मात्कुर्नेर्दीर्घश्च । नीलहुः कृमिविशेषः शृगालश्च । ‘नीलाङ्क इति पाठान्तरम् । तत्र धातोरपि दीर्घः । “लग सङ्गे' अस्य अत । इत्वभ्चेव लगतीति लिगु चित्तम् । लिगुर्मुखैः ।
३७ । मृगय्वादयश्च । एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयु व्यधः । देवयुर्धार्मिकः । मित्रयुलोकयात्राभिज्ञः । आकृतिगणोऽयम् ।
३८ । मन्दिवाशिमथिचतिचङ्कयङ्किभ्य उरच । मन्दुरा वाजिशाला । वाशुरा रात्रिः। मथुरा। चतुरः । चङ्करो रथः । अङ्करः। खर्जुरादित्वादङ्करोऽपि।
३९ । व्यथेः सम्प्रसारणं किञ्च । “विथुरश्चोररक्षसोः' ।
द्युदुभ्या म' । खरुशब्दस्य कूरो मूख लयः 'द्रय झापादीवृत्त्यनुसारेणोक्तम् । खरुः पतिवरा कन्येत्यपि बोद्यम् । 'खरुर्दन्ते हरे दर्षे हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशषों । शंकुरिति ॥ “शकि शङ्कायाम्' । शङ्कतेऽस्मादिति, “शहुः कीले गरे शत्रे सङ्खयापादप भेदयोः । यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः । पीयुरिति ॥ 'पीयुः काले रवौ घूके' इति मेदिनी । कृमिविशेष इति । 'नीलडुः कृमिजातौ स्यात् भम्भराली प्रसूनया. इति विश्व' । पाठान्तरमिति ॥ 'नीलडुरपि नीलाडुः' इति विश्वः । धातो रपीति । केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः उपपदस्य मुम् दीर्घश्च पाक्षिको निपात्यते इत्याहु । 'लिगु चित्ते नपुसकम्' इति वररुचि । मृगय्वादयश्च ॥ 'मृगयुः पुसि गोमायौ व्याधे च परमेष्ठिनि' इति मेदिनी । 'मृगयुर्बह्मणि ख्यातो गोमायुव्याधयोरपि । देवयुधार्मिके ख्यातो देवयुलॉकयात्रिके' इति विश्वः । आकृतिगण इति ॥ तेन, 'पील प्रतिष्टम्भे' अस्मात्कुः । “पीलुर्गजे दुमे काण्डे परमाणुप्रसूनयो.' इति विश्व । भट्टास्तु पीलुशब्दस्य वृक्षे आर्यप्रसिद्धिः गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजहूः । कडि मदे । कण्डुरित्यादि बोध्यम् । वाशुरा रात्रिरिति ॥ वाश्यन्ते अस्यामिति विग्रहः । वासुरो गर्दभ इत्यन्ये । 'वाशुरा वासितारात्र्यो' इति मेदिनी । ‘चङ्करः स्यन्दने वृक्षे ' इति मेदिनी । अङ्करो रुधिरे लोन्नि पानीयेऽभिनवोद्रिदि' इति च -। खर्जरेति ॥ 'अङ्कराडुर एव च इति विश्वप्रकाशः । व्यथेः ॥ “व्यथ भयसञ्चलनयो ' । अस्मादुरच् कित् स्याद्धातोः सम्प्र सारणञ्च । दशपाद्यां तु ध' किचेति पठित्वा धकारमन्तादेशं विधाय विधुरोऽनझिकः इत्युदा हृतम् । माधवेनापि तदेवानुस्मृतम् । न त्वेतद्युक्तम् । “त्वमेषां विथुरा शवासि । अतिविद्धा विथुरेणाचिदस्रा' इत्यादिमन्त्रषु थकारपाठस्य निर्विवादत्वात् । यदपि माधवेनोक्तं विदिभिदि इत्यत्र व्यथेः सम्प्रसारणञ्चेति वचनात् कुरचि थान्त रूपमिति । तदतिस्थवीयः । कुरज्विधायके