३१६४ । हलसूकरयोः पुवः । (३-२-१८३)
पूङ्यूञ्जाः करणे ष्ट्रन्स्यात् । तचेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ।
३१६५ । अर्तिलूधूसूखनसहचर इत्रः । (३-२-१८४)
अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ।
३१६६ । पुवः संज्ञायाम् । (३-२-१८५)
पवित्रम् । येनाज्यमुत्पूयते, यचानामिकावेष्टनम् ।
३१६७ । कर्तरि चर्षिदेवतयोः । (३-२-१८६)
पुव इत्रः स्यात् ऋषौ करणे, देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् । देवतायां तु 'अन्निः पवित्रं स मा पुनातु ।
इति पूर्वकृदन्तप्रकरणम् ।
दंष्ट्रति ॥ दशधातोः तः । क्डित्प्रत्ययाभावान्नलोपो न । सूत्रे दशेति शपा निर्देशात् ‘दंश सञ्ज' इात नलोप । केचित्तु दशेल्यकार उच्चारणाथै. । नलोपनिर्देशात् कचिदन्यस्मिन्नपि प्रत्यये अकडित्यपि नलोप इति दशना दन्ता इत्याहुः । नड्रीति ॥ नह्यते अनयेति विग्रहः । चर्मरज्जुः । “नह बन्धने' त्रः । “नहो ध' 'झषस्तथोः' इति तस्य धः । षित्वान्डीष् । हलसूकरयाः पुवः ॥ पादत्रामांत ॥ 'नितुत्रतथसिसुसर’ इति नेट् । अर्तिलूधू ॥ अर्ति, लू, धू, सू, खन, सह, चर, एषा सप्ताना द्वन्द्वात्पञ्चमी । पुवः संज्ञायाम् ॥ इत्र इति शेषः । करणे इत्येव । पवित्रमिति ॥ पूयते अनेनाज्यामिति विग्रहः । तदाह । येनाज्यमिति ॥ पूयते आचमनोदकादिकमनेनेति विग्रह मत्वा आह । यञ्चा नामिकेति । अनामिका उपकनिष्ठिकाडुळिः । कर्तरि च ॥ पवित्रमिति ॥ पावमान्यादि सूक्तम् । अग्निः पवित्रमिति ॥ पुनातीत्यर्थः । सामान्याभिप्रायमेकवचन नपुसकत्वञ्च ।
इति श्रीमद्वासुदेवदीक्षितविरचिताया सिद्धान्तकौमुदीव्याख्याया श्रीबालमनोरमाख्यायां तृतीयाध्यायस्य द्वितीयपादे पूर्वकृदन्तप्रकरण समाप्तम् ।