। श्रीरस्तु ॥
॥ अथोणादयः ।
१ । कृचापाजिमिखदिसाध्यशूभ्य उण । करोतीति कारुः, शिल्पी कारकश्च । ‘आतो युक्-' (सू २७६१) । वातीति वायुः । पायुर्गुदम् । जय त्यभिभवति रोगान् जायुः औषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः
अथ उणादिप्रारम्भ –“कृवापाजि' इत्यादीन्युणादिसूत्राणि मूले प्रौढमनोरमायाञ्च स्फुट व्याख्यातानि । तत्र न किञ्चिद्याख्यातव्यमुपलभ्यते । तानि चेवमान्युणादिसूत्राणि शाकटायनमुनि प्रणीतानि, नतु पाणिनिना प्रणीतानि इति “उणादयो बहुळम्' इति सूत्रभाष्ये “नाम च धातुजमाह निरुत्ते व्याकरणे शकटस्य च तोकम्’ इति वार्तिकव्याख्यानावसरेऽभिहितम् । उणादीनां शास्त्रान्तरपठिनाना साधुत्वाभ्यनुज्ञानार्थ बहुळग्रहणम्' इति कैयटः । न द्येषा म्पाणिनीयत्वे शास्त्रान्तरशब्दो युज्यते । उणादिप्रत्ययान्ताश्शब्दा पाणान्नमत अव्युत्पन्ना एव । अत एव “आयनयी' इति सूत्रे “प्रातिपदिकविज्ञानाञ्च भगवतः पाणिनस्सिद्धमुणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि” इति भाष्ये उक्तम् । अत एव च । “आदेशप्रत्यययोः’ इति सूत्रभाष्ये उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि इत्युका तर्हि सर्पिषा थजुषेल्यादौ अप्रत्ययत्वात् षत्वाभावमाशङ्कय बहुळग्रहणात् प्रत्ययसज्ञामवलम्ब्य षत्व साधितम् । व्युत्पत्ति पक्षश्च निराकृतः । अतोऽयुणादिसूत्राणान्न पाणिनीयत्वम् । अत एव “अजेव्यैघञ्पो इति सूत्रभाष्ये अजधातोर्युप्रत्यये प्रकृतेर्वीभावे वायुशब्दो व्युत्पादितः । उणादिसूत्राणां पाणिनीयत्वे हि 'कृवापाजि' इत्युणादिसूत्रेण उप्रत्ययमाश्रियैव व्युत्पद्येत । एवञ्च कचिद्राष्ये उणादीना व्युत्पन्नत्वाश्रयण शास्रान्तरमूलकमेव इति शब्देन्दुशेखरे प्रपञ्चितम् । तथा च ‘किब्वचिप्रच्छयायतस्तुकटपुजुश्रीणा’ इत्युणादिसूत्र णां तथाविधवार्तिकानाञ्च न पैौनरुक्तयशाङ्का ॥** कृत्वापा ॥ “कारुः शिल्पिनि कारके” इति धरणिकोशमभिप्रेत्याह । कारुरित्यादि । आद्ये योगरूढिः । द्वितीये तु योगमात्रामति विवेकः । अत एव द्वितीये धात्वर्थे प्रति कारकान्वयो भवत्येव । तथा च भट्टिः । “राघवस्य ततः कार्य कारुर्वानरपुङ्गवः । सर्ववानर सेनानामाश्वागमनमादिशत् ” इति । पायुः पुंसि । ‘गुदन्त्वपान पायुनौ' इत्यमर” । पिबत्यनेन तैलादिकामिति विग्रहः । पाति रक्षतीति विग्रहे रक्षकोऽपि । तथा च मन्त्रः । 'भुवस्तस्य स्वतवाः पायुरप्रे' इति । “स्वतवान्पायौ' इति रुत्वम् । जायुरिति । 'भषजौषधभैषज्या न्यगदो जायुरित्यपि' इत्यमरः । साहवर्यात्पुंस्त्वम् । 'मायुः पित्तं कफः श्लेष्म' इत्यमरः ।
'उणादिषु बालमनोरमाप्रणेतुर्वासुदेवदीक्षितस्याभिप्रायानुसारेण प्रौढमनोरमा मुद्रयते ।