पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७२
[कृदन्त
सिध्दान्तकौमुदीसहिता


३१६० । विप्रसम्भ्यो डुसंज्ञायाम्। (३-२-१८०)

एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभुव्र्यापकः । प्रभुः स्वामी । सम्भुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् । 'मितादिभ्य उपसङ्खयानम् (वा २१५२) । मितं द्रवतीति मितदुः । शतदुः । शम्भुः । अन्तर्भवितण्यर्थे ऽत्र भवति ।

३१६१ । धः कर्मणि ष्ट्रन् । (३-२-१८१)

धेटो धाञ्श्च कर्मण्यर्थे ष्ट्रन्स्यात् । षो डीषर्थ । धात्री जनन्यामलकी वसुमत्युपमातृषु ।

३१६२ । दात्रीशसयुजस्तुदसिसिचमेिहपतद्शनहः करणे । (३-२-१८२)

दाबादेः ष्टन्स्यात्करणेऽर्थे । दान्यनेन दात्रम् । नेत्रम् ।

३१६३ । तितुत्रतथसिसुसरकसेषु च । (७-२-९)

एषा द्शाना कृत्प्रत्ययानामण्न स्यात् । ३शखम् । यात्रम् । यावक्त्रम् । स्तोत्रम् । तोखम् । सेत्रम् । सेक्त्रम् । मेढूम् । पत्रम् । दंष्ट्रा । नद्री ।


मुदाहरति । मित्रभूनमेति ॥ अन्तर उदाहरति । धनिकेत्यादि । यावद्रव्यभाविन्यः सज्ञा । प्रतिभूशब्दस्तु सत्येव पुरुपे कदाचिन्न भवति । ऋण प्रतिदते सति प्रातिभाव्यस्य निवृत्तेः । विप्रसम्भ्यः ॥ डु असज्ञायामिति छेद । विभुरिति ॥ डित्त्वसामथ्र्यादभस्यापि टेलोपः । सम्भुरिति ॥ सभवति उत्पादयतीति सम्भुः । तदाह । जनितेति । मित द्वादिभ्य इति ॥ मितद्रादिसिद्यर्थ डुप्रत्ययस्य उपसङ्खयानामत्यथः । शम्भुरिति ॥ श सुख भवति उत्पादयतीत्यर्थ । तदेवोपपादयति । अन्तर्भवितेति । धः कर्मणि ष्ट्रन् ॥ धटः कृतात्वस्य धाञ्श्च ध इति पञ्चम्यन्तम् । तदाह । धेट इत्यादि ॥ षकारात् तकारस्य टुत्वसम्पन्नटकारेण निर्देशः, षस्य इत्सज्ञाया लोपे सति टुत्वसम्पन्नस्य निवृत्तिः । तदाह । धात्रीत्यादि । दास्री। दाप्, नी, शस, यु, युज, तु, तुद, सि, सिच, मिह, पत, दशा, नह, एषां त्रयोदशानां द्वन्द्वः। ‘दाप् लवने' इत्यस्य पकारस्य स्थान'यरोऽनु’ इति कृतमकारस्य निर्देशः । अत्र शसेः पतश्च त्रप्रत्यये इटमाशङ्कय आह । तितुत्रत ॥ ति, तु, त्र, त, थ, सि, सु, सर, क, स, एषा दशानां द्वन्द्वः । अत्र सरेत्येकम्।ति, तन्तिः , ‘स्त्रियाम्’ इति क्तिन्। तु, सक्तुः, ‘तनिगमि’ इत्यादिना तुप्रत्ययः । त्र, शस्त्रम्, पत्तूम् । 'दान्नी' इति त्रप्रत्यय । त, हस्तः । औौणादिक तप्रत्ययः । क्तप्रत्यये तु हसितमिलेयव । थ कुष्ठम् । औौणादिकः क्थप्रत्ययः । सि कुक्षि । कुषरौणादिकः क्सिप्रत्ययः । सु, इक्षुः, इषेरौणादिकः क्सुप्रत्ययः । सर, अक्षरम्, अशस्सरन् । क, शल्कः, शलेः कः। स, वत्सः, वदेः सः। मेढूमिति ॥ ‘मिह सेचने' त्रः। ढत्वधत्वष्टत्वढलोपाः।