पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५७१
बालमनोरमा ।

३१५८ । अन्येभ्योऽपि दृश्यते । (३-२-१७८)

किप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । कचिद्दीर्घः कचिदसम्प्रसारणं, कचिद्वे, कचिद्रस्व । तथा च वार्तिकम् । 'किब्वचि प्रच्छयायतस्तुकटपुजुश्रीणां दीघऽसम्प्रसारणश्च' (वा २१४७-४८) । किव्व चीत्यादिनोणादिसूत्रेण केषाञ्चित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौति आयतस्तूः । कटं प्रवते कटः । जुरुक्तः । श्रयति हरिं श्री । ' द्युतिगमिजुहोतीनां द्वे च (वा २१४९) । दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् । 'जुहोतेदीर्घश्च (वा २१४९) । जुहूः । 'दृ भये' । अस्य हस्वश्च । दीर्यति । ददृत् । 'ध्यायतेः सम्प्रसारणञ्च' (वा २१५१) । धीः ।

३१५९ । भुवः संज्ञान्तरयोः । (३-२-१७९)

मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थ स प्रतिभूः ।


ग्रावस्तुदिति ॥ पित्वातुक् । अन्येभ्योऽपि ॥ किबिति ॥ शेषपूरणमिदम् । भ्राजभास इत्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्य तच्छीलादिषु कर्तृषु किप् दृश्यते इत्यर्थः । विध्यन्तरेति ॥ विधीयते इति विधि, कार्य, कार्यान्तरोपसङ्गहार्थमित्यर्थे । तदेव दर्शयति । कचिद्दीर्घ इत्यादि । किब्वचीत्यादिनेति ॥ 'किव्वचिप्रच्छयायतस्तुकटपुजुश्रीणा दीर्घऽसम्प्रसारणश्च' इत्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति ॥ वचधातो किप् । वचनात् उपधाया दीर्घः । वचिवस्वपि' इति सम्प्रसारणाभावश्च । एव कटरित्यत्र दीर्घ । प्राडिति । वचनान्न सम्प्रसारणम् । जुनुरुक्त इति ॥ 'भ्राजभास' इत्यत्रेति शेन् । अतोऽत्र तद्वहणम्मास्त्विति भावः । श्रीरिति ॥ श्रिञ्ज किपि दीर्घ । द्युनीति ॥ ‘द्युतिगमिजुहोत्यादीनान्द्वित्व किप्च' इति वाच्यमित्यर्थ । 'पूर्वोऽभ्यासः' इत्यत्र षाष्टद्विर्वचन एव पूर्वखण्डस्याभ्याससज्ञावचनादाह । दृशिग्रहणादिति ॥ “ अन्येभ्योऽपि दृश्यते' इत्यत्रेत्यर्थः । ततश्चाभ्यासकार्य हलादिशेषा दीति भाव । दिद्युदिति ॥ 'द्युतिखाप्यो.' इति सम्प्रसारणम् । जगदिति ॥ गमे. किप् गमः कौ' इति मलेोपे तुक् । जुहोतेर्दीर्घश्चेति ॥ वार्तिकमिदम् । चात्किद्वित्वे । हृस्व श्रेति । वार्तिकमिदम् । ददृदिति ॥ हखे कृते तुक् । ध्यायतेरिति ॥ वार्तिकमिदम् । चात् किम् । धीरिति ॥ ध्यैधातोः ििप सम्प्रसारणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्र ‘ध्यायतेस्सम्प्रसारणञ्च' इत्युणादिषु पठितत्वादिद वार्तिकं मास्त्वित्याहुः । वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यन्ते, अतो न पौनरुक्तयशङ्का । भुवः संज्ञान्तरयोः । किबिति शेषः । संज्ञान्तरयोरेवेति नियमाथै सूत्रम् । संज्ञाया